2023-03-12 05:01:49 by ambuda-bot
This page has not been fully proofread.
शावेदान्तकोशः
-
मन्त्रेणाश्वरशनामेवाददीत न तु गर्दभरशनाम् (मी०प०) । विधिरत्यन्तमप्राप्तौ नियमः
पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते । ये शास्त्रविधिमुत्सृज्य
वर्तन्ते कामकारतः (गी० १६ । २३) । शास्त्रविधिं वेदविहितम् (अत्रैव श्रीधरी ) । ये
शास्त्रविधिमुत्सृज्य यजन्ते शुद्धयान्विताः (गी० १७।१ ) । यथा च - आत्मा वा
अरे द्रष्टव्यः श्रोतव्यः मन्तव्यः (बृ० उ० २/४/५ ) । ..... वेदान्तश्रवणं किं विधिः
प्रतीयमानः किंविध इति चिन्त्यते । ....केचिदाहुः अपूर्वविधिरयम् । अप्राप्तत्वात् ( सि०
ले० सं० १ प०) । २. शैवदर्शनस्य धर्मार्थविचारः । यथा - "धर्मार्थविचारो विधिः।
स ब्रह्मद्वाररूपेण द्विविधः । भस्मस्नानभस्मशयनोपहारादिव्रतम् । आद्ये प्रसिद्धे । उपहारः
षड्विधः। हसितगीतनृत्तहुडुक्कारनमस्कारजपभेदेन । तत्र हसितमट्टहासः । गीतं
गान्धर्वशास्त्रप्रकारेण । हुडुक्कारो जिह्वातालुसंयोगान्निष्पाद्यमानो वृषभनादसदृशो
नादः । यत्र लौकिका न भवन्ति तत्र चत्वार्येतानि निगूढं प्रयोक्तव्यानि । जपनमस्कारौ
प्रसिद्धौ । द्वाराणि कायनस्पन्दनमन्दायनशृङ्गारणातत्कारणतद्भाषणभेदेन षड्विधानि
असुप्तस्येव सुप्तलिङ्गप्रदर्शनं कायनम् । वातव्याध्यभिभूतस्ये शरीरावयवानां कम्पनं
स्पन्दनम् । उपहतपादेन्द्रियस्येव गमनं मन्दायनम् । रूपयौवनसम्पन्नां कामिनी-
मवलोक्यात्मानं कामुकमिव यैर्विलासैः प्रदर्शयति तद्वदाचरणं शृङ्गारणा । कार्याकार्य-
विकलस्येव लोकनिन्दितकर्मकरणमपि तत्कारणम् । व्याहतापार्थकादिशब्दोच्चारणमपि
तद्भाषणम् । दुःखान्तो द्विविधः - अनात्मकः सात्मकश्च । अनात्मकः सर्वदुः खाना-
मत्यन्तोच्छेदः । सात्मकस्तु दृक्रियाशक्तिबललक्षणमैश्वर्यम् । तत्र दृक्शक्तिरेकापि
विषयभेदात्पञ्चधोपचर्यते । दर्शनं श्रवणं मननं विज्ञानं सर्वज्ञत्वञ्चेति । सूक्ष्मव्यवहित-
विप्रकृष्टाशेषचाक्षुषस्पार्शनादिविषयं ज्ञानं दर्शनम् । अशेषशब्दविषयं ज्ञानं श्रवणम् ।
निरवशेषशास्त्रविषयं ज्ञानं मननम् । ग्रन्थतोऽर्थतश्चासन्दिग्धज्ञानं विज्ञानम् । सर्वज्ञत्वं
प्रसिद्धम् । क्रियाशक्तिरेकापि त्रिविधोपचर्यते । मनोजवत्वं कामरूपित्वं विकरण-
धर्मित्वञ्चेति । निरतिशयशीघ्रगामित्वं मनोजवत्वं कर्मानपेक्ष्य स्वेच्छयैवानन्त-
शरीरेन्द्रियाधिष्ठातृत्वं कामरूपित्वम् । उपसंहृतशरीरेन्द्रियस्यापि निरतिशयैश्वर्य-
शक्तित्वं विकरणधर्मित्वम्" (ब्र० सू० २ । २ । ३७ क० त० परि०) । १ . प्रमाशब्दः ।
(क) विधिर्विधायकः (गौ० २।१।६३) । (ख) इष्टसाधनताबोधकप्रत्ययसमभि-
व्याहृतवाक्यम् (गौ० वृ० २।१।६३) । (ग) विध्यभिधायकप्रत्ययः तद्धटितवाक्यं
वा (न्या० मं० ४) । तदर्थश्च विधीयते विधिरूपशब्देन प्रतिपाद्यतेसौ विधिरिष्ट-
साधनत्वादिः । तस्याभिधायको वाचकः इति । अथवा अर्थविशेषाभिधायकः प्रत्ययः ।
४०२