2023-03-26 06:04:19 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
शाङ्करवेदान्तकोशः
चतुर्थं च विद्या ह्यष्टादशैव ताः (विष्णु पु०) । (वाच०) । श्रुतौ तु विद्या द्विविधोक्ता
परा अपरा च । तत्र परा यया ब्रह्मावगमः सा । ययाक्षरमधिगम्यते सा परा इति
श्रुतेः। ऋग्वेदादिलक्षणा अपरा । सा चाध्ययनाध्यापनरूपा (वाच०) । विद्याभेदेन
देवताभेदा: (हेमा० शु०) । विष्णुधर्मोत्तरे उक्ता तास्तत्रैव दृश्याः । पशुगुणो विद्या
( सर्व० सं० पृ० १६७ नकुली०) (न्यायकोशः) ।
i
-
-
विद्याभेदः
विद्याभेदद्वयम् - परोक्षा अपरोक्षा च । तथा - परोक्षा चापरोक्षेति
विद्या द्वेधा विचारजा । तत्रापरोक्षविद्याप्तो विचारोऽयं समाप्यते (प० द० ६।९५) ।
विद्याशक्तिः
चिच्छक्तिः । यथा - "सत्या चिच्छक्तिरसत्या वा विद्याशक्तिस्तदु-
भयसंसर्गाज्जगदुत्पत्तिरित्यर्थ:" (सं० शा० ३।२२८ सु० टी०) ।
-
-
विधारयिता
परमेश्वरः लोकधारणात् । यथा - "अथ य आत्मा स सेतुर्विधृतिरेषां
लोकानामसम्भेदाय (छा० ८।४।१) इति । तत्र विधृतिरित्यात्मशब्दसमानाधि-
करण्याद् विधारयितोच्यते, क्तियः कर्त्तरि स्मरणात्" (ब्र० सू० १/३/१६ शा०
भा०) । यथा च - "सौत्रो धृतिशब्दो भाववचनः । धृतिश्च परमेश्वर एव
दहराकाशः । कुतः ? अस्य धारणलक्षणस्य महिम्नोऽस्मिन्नेवेश्वर एव श्रुत्यन्तरेषूप-
लब्धे: (तत्रैव भाम० ) ।
विधिः
१. यत्किञ्चित्कार्यनिदेशकं वाक्यं विधिः । अयं च त्रिविधः - यथा -
अपूर्वविधिःनियमविधिःपरिसंख्याविधिश्च । यथा - अप्राप्तप्रापको विधिःअपूर्वविधिः।
यथा दर्शपूर्णमासप्रकरणे ब्रीहीन् प्रोक्षति। .....अत्यन्ताप्राप्तप्रोक्षणप्रापकत्वादयम-
पूर्वविधिः। यश्च पक्षे प्राप्तमर्थं नियमयति स नियमविधिः । यथा तत्रैव ब्रीहीन्
अवहन्ति इति ।
इति । .....वैतुष्यकार्याय
प्राप्नुयादिति । तस्मिन् पक्षेऽवहननस्य प्राप्तेरभावात् कार्यान्यथोपपत्तेरवहननस्य
पाक्षिकी प्राप्तिः स्यात् । सति त्वस्मिन् विधौ अवहननेनैव वैतुष्यं कार्यमिति नियमे
सति विदलनं सर्वात्मना निवर्तत इति नियमविधिरयम् ।....द्वयोः समुच्चित्य प्राप्तावितर-
निवृत्तिफलको विधिः परिसंख्याविधिः । यथा चयनप्रकरणे इमामगृभणन्
रशनामृतस्येत्यश्वाभिधानीमादत्ते इत्यश्वरशनाग्रहणाङ्गत्वेन मन्त्रविधिः। ...अनेन