This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
"
 
"
 
प्राणविद्या मधुविद्या भूमविद्याप्रभृतयः । एतदतिरिक्ता अपि सामान्यविद्या । यथा -

देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां.... सर्वदेवजन-विद्याम्....

(छा० उ०७।१।२) । २. देवताज्ञानम्- "विद्यया देवताज्ञानेनामृतं देवतात्मभावमश्नुते

प्राप्नोति" (ई० उ० ११ शा० भा०) । ३. विवेकज्ञानम् । यथा - "परकर्मणां च

परस्मिन्नात्मन्यविद्ययाध्यारोपितानां विद्यया विवेकज्ञानेन मनसा संन्यास उपपद्यते"

(गी० ५।१३ शा० भा०) । ४. "ब्रह्माकारा अन्तःकरणवृत्तिः । यथा - ब्रह्माकारान्तः-

करणवृत्तिर्विद्या" (सं० शा० १ । २१३ सु० टी० ) । ५. मोक्षकारणम् । यथा -

"अपवर्गफला च विद्याऽप्येकैवेति योज्यम्" (सं० शा० ३ । ३४२ सु० टी०)। ६.

ब्रह्मविद्या । यथा – "विद्या वेदार्थपरिज्ञानं ब्रह्मविद्या वा" (गी० ५/१८ म० सू० ) ।

उपासनाशब्दवच्चार्थः।" ७. बुद्धिः । १. ज्ञानम् । तच्च कणादनये - यथा विशेषण-

वद्विशेष्यसन्निकर्षलिङ्गपरामर्शादिरूपगुणजन्यो बुद्धिविशेष: (त० व० २१३ ) ।

यथार्थज्ञानमिति भावः। विद्याया विभागादिकं तु बुद्धिशब्दव्याख्याने दृश्यम् ।

२. विजातीयज्ञानहेतुः शास्त्रम् । यथा आन्वीक्षिकी न्यायविद्या । सेयमान्वीक्षिकी

प्रमाणादिभिः पदार्थैर्विभज्यमाना - प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् । आश्रमः

सर्वधर्माणां विद्योद्देशे प्रकीर्तिता (वात्स्या० ११ ।१ ) । इति । ३. पौराणिकनये

विद्याश्चतुर्दश अष्टादश चापि । ता उच्यन्ते । विद्याश्चतुर्दश प्रोक्ताः क्रमेण तु यथा

स्थिति । षडङ्गमिश्रिता वेदा धर्मशास्त्रं पुराणकम् । मीमांसातर्कमपि च एताविद्याश्चतुर्दश।

( नन्दी पु०) । इति । न्यायनये विद्याश्चतस्रः - आन्वीक्षिकी त्रयी वार्ता दण्डनीति-

रूपाश्चतस्रो विद्या विद्याप्रस्थाने कथिताः (गौ० वृ० १ ।१ ।१ ) । तदर्थश्च आन्वीक्षिकी

न्यायविद्या । त्रयी वेदविद्या । वार्ता नीतिशास्त्रम् । दण्डनीतिस्त्वर्थशास्त्रमिति । मनुना

चोक्तम् त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् । आन्वीक्षिकीं चात्मविद्यां

वार्तारम्भांश्च लोकतः (मनु० ७ । ४३) । इति । वार्तिके चोक्तम् - चतस्र इमा

विद्या भवन्ति । ताश्च पृथक् प्रस्थानाः अग्निहोत्रहवनादिप्रस्थाना त्रयी ।

हलशकटादिप्रस्थाना वार्ता । स्वाम्यमात्यभेदानुविधायिनी दण्डनीतिः । संशयादि-

भेदानुविधायिन्यान्वीक्षिकी (न्या० वा० १-१३) । पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।

वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश (याज्ञ० १ ।३) इति च । अष्टादश

चान्यत्रोक्ताः । ता उच्यन्ते । अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । धर्मशास्त्रं
 
४००