This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
-
 
बि
वितर्कः - , वितर्क
नानाविधसङ्कीर्णज्ञानम् । यथा - तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा

सवितर्का समापत्तिः (पा० यो० सू० १ (४२) । अत्र तत्त्ववैशारदी - तद्यथा गौरिति

शब्दो गौरित्यर्थः गौरिति ज्ञानमित्यविभागेन विभक्तानामपि ग्रहणं दृष्टम् ।

विभज्यमानाश्चान्ये शब्दधर्मा अन्येऽर्थधर्मा अन्ये विज्ञानधर्मा इत्येतेषां विभक्तः पन्थाः ।

तत्र समापन्नस्य योगिनो यो गवाद्यर्थः समाधिप्रज्ञायां समारूढ़ः स चेच्छब्दार्थ-

ज्ञानविकल्पानुबिद्ध उपावर्तते सा सङ्कीर्णा समापत्तिः, सवितर्केत्युच्यते ।
 

१. प्रयोक्तुः सम्भावनात्मकं ज्ञानम् । यथा- किमिन्दुः किं पद्यं किमु मुकुरविम्बं

किमु मुखमित्यादौ किं· पदार्थः । अत्र अव्ययकिमर्थस्य सम्भावनात्मकज्ञानस्य

विशेष्यतासम्बन्धेन प्रथमान्तपदोपस्थाप्यविशेष्ये अन्वयः । प्रकारितासम्वन्धेन तत्र

च विशेषणस्य चन्द्रादेरन्वयः (ग० शक्ति० पृ० १०८ ) ॥२. आलङ्कारिकास्तु

अलङ्कारविशेषः इत्याहुः (न्यायकोशः) ।
 
-
 
विट्ट

 
विदृ
तिः - , विदृति
द्वारम् । यथा - "सैषा विट्टतिर्विदारितत्वात् विदॄतिर्नाम प्रसिद्धा

द्वाः" (ऐ० उ० ३।१२ शा० भा० ) ।
 
-
 
(
 

 
विदेहकैवल्यम् - , विदेहकैवल्य
तत्र शरीरपातसमकालिका मुक्तिः । सति देहे मुक्तिः असति

शरीरे च मुक्तिः । विदेहकैवल्यम् । यथा - "इत्यस्मिन्नधिकरणेऽधिकारिपुरुषाणा-

मुत्पन्नतत्त्वज्ञानानामिन्द्रादीनां देहधारणानुपपत्तिमाशङ्क्याधिकारापादकप्रारब्धकर्म-

समाप्त्यनन्तरं विदेहकैवल्यमिति सिद्धान्तितम् (वे० प० ८ प०) ।
 
-
 

 
-
 
विद्या –

 
विद्या, विद्या
१ . आत्मज्ञानम् । विशेषतो मुक्तिप्रयोजकं ज्ञानम् । यथा – "सा विद्या

या विमुक्तये । इयं च द्विविधा - परा तथा अपरा । यथा अक्षरमधिगम्यते सा परा ।

या जगद्व्यवहारसम्पादिका सा अपरा। यथा- आत्मतत्त्वं न जानाति सुप्तो यदि

तदा त्वया । आत्मधीरेव विद्येति वाच्यं न द्वैतविस्मृतिः (प० द० ७।१८६) यथा

च – अविद्येति मन्यन्ते ।. तद्विवेकेन च वस्तुस्वरूपावधारणं विद्यामाहुः (ब्र० सू०

शा० भा० उपो०) । अत्र भामती - निर्विचिकित्सं ज्ञानं विद्यामाहुः पण्डिताः । प्रत्यगात्मनि

खल्वत्यन्तविवेके बुद्ध्यादिभ्यः बुद्ध्यादिभेदाग्रहनिमित्तो बुद्ध्यात्मत्वतद्धर्माध्यासः ।

तत्र श्रवणमननादिभिर्यविवेकज्ञानं तेन विवेकाग्रहे निवर्तिते अध्यवसायबाधात्मकं

वस्तुस्वरूपावधारणं विद्या चिदात्मरूपं स्वरूपे व्यवतिष्ठत इत्यर्थः । यथा च - विद्यां

चाविद्यां च यस्तद्वेदोभय सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते

(ई० उ० ११) । आत्मज्ञानार्थमुपनिषत्सु अनेका विद्या उपवर्णिताः - दहरविद्या