This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
तस्मात्प्रवृतिविज्ञानं यन्नीलादिकमुल्लिखेत् । विज्ञान-स्कन्धो निर्विकल्प इति । केचिद्

देवत्तादिनाम संज्ञास्कन्ध इत्याहुः । तन्मते विकल्पोऽपि विज्ञानस्कन्धः । अत्र वेदान्तकल्पतरुः

अहमित्याकारकमालयविज्ञानमिन्द्रियादिजन्यं रूपादिविषयं च ज्ञानमेतद्द्वयं

दण्डायमानं प्रवाहापन्नं विज्ञानस्कन्ध इत्यर्थः । वेदनास्कन्ध इति भाष्योपादानं या

प्रियेत्यादि तद्व्याख्यानम् । सविकल्पप्रत्यय इत्यनेन विज्ञानस्कन्धो निर्विकल्प इति भेदः

स्कन्धयोर्ध्वनितः ।
 
-
 
-
 

 
विज्ञानस्पन्दितम् - , विज्ञानस्पन्दित
अचलस्यापि विज्ञानस्य स्पन्दनमिव । यथा - "किं विज्ञान-

स्पन्दितम् । स्पन्दितमिव स्पन्दितमविद्यया । न ह्यचलस्य विज्ञानस्य स्पन्दनमस्ति । अजा-

चलमितियुक्तम् (मा० उ० गौ० का० ४ ४७ शा० भा० ) ।
 

 
विज्ञानैकस्कन्थवादः, विज्ञानैकस्कन्थवाद
केषाञ्चित्किल विनेयानां बाह्ये वस्तुन्यभिनिवेशमालक्ष्य

तदनुरोधेन बाह्यार्थवादप्रक्रियेयं विरचिता । नासौ सुगताभिप्रायः । तस्य तु

विज्ञानैकस्कन्धवाद एवाभिप्रेतः । तस्मिंश्च विज्ञानवादे बुद्ध्यारूढ़ेन रूपेणान्तःस्थ एव

प्रमाणप्रमेयफलव्यवहारः सर्व उपपद्यते, सत्यपि बाह्येऽर्थे बुद्ध्यारोहणमन्तरेण

प्रमाणादिव्यवहारानवतारात् (ब्र० सू० २।२।२८ शा० भा०) । यथा च - "अथ

प्रमाता प्रमाणं प्रमेयं प्रमितिरिति हि चतसृषु विधासु तत्त्वपरिसमाप्तिः,

आसामन्यतमाभावेऽपि तत्त्वस्याव्यवस्थानात् । तस्मादनेन विज्ञानस्कन्धमात्रं तत्त्वं

व्यवस्थापयता चतस्रो विधा एषितव्याः, तथा च न विज्ञानस्कन्धमात्रं तत्त्वम्"

(तत्रैव भाम० ) ।
 
-
 
बि

 
वि
तण्डा - , वितण्डा
न्यायशास्त्रे - प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्क-

निर्णयवादजल्पवितण्डाहेत्वाभासछलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः

इति (गौ० सू० १1१19) सूत्रेण षोडशपदार्था उक्ताः । तत्रैको वितण्डा ।

तत्त्वबुभुत्सोर्वादः कथोच्यते । तत्र च स्वपक्षस्थापनाहीना वितण्डा प्रोच्यते । यथा -

स्वपक्षस्थापनाहीना वितण्डा (त० दी० ) । खण्डनखण्डखाद्यनामकाद्वैतवेदान्तग्रन्थो

वितण्डाप्रधानः । वितण्डावादी विद्वान् वैतण्डिक इति कथ्यते । (कथा) (क)

सत्रतिपक्षस्थापनाहीनो वितण्डा (गौ० १ । २ । ३) । स जल्पो वितण्डा भवति । किं

विशेषणः प्रतिपक्षस्थापनया हीनः । यौ तौ समानाधिकरणौ विरुद्धौ धर्मों

पक्षप्रतिपक्षावित्युक्तौ तयोरेकतरं वैतण्डिको न स्थापयतीति परपक्षप्रतिषेधेनैव प्रवर्तत

इति । अस्तु तर्हि स प्रतिपक्षहीनो वितण्डा । यद्वै खलु तत्परप्रतिषेधवाक्यं स वैतण्डिकस्य

पक्षः । न त्वसौ साध्यं कञ्चिदर्थं प्रतिज्ञाय स्थापयतीति । तस्माद्यथान्यासमेवास्त्विति

( १ । २ । ३) । अभ्युपेत्य पक्षं यो न स्थापयति स वैतण्डिकः इत्युच्यते (न्या० वा०) ।