This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
-
 
विज्ञानमयो मनोमयस्याऽभ्यन्तरो विज्ञानमयो मनोमयो वेदात्मोक्तः (तै० उ० २ ।
४ शा० भा० ) । यथा च - स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः
श्रोत्रमयः (बृ० उ० ४।४।५ ) । यथा च - "इत्येवमादि ब्रह्मण एवाविकृतस्य
सतोप्येकस्यानेकबुद्ध्यादिमयत्वं दर्शयति । तन्मयत्वं चास्य विविक्तस्वरूपानभिव्यक्त्या
तदुपरक्तस्वरूपत्वं स्त्रीमयो जाल्म इतिवद् द्रष्टव्यम् । यदपि क्वचिदस्योत्पत्तिप्रलयश्रवणं
तदप्यत एवोपाधिसम्बन्धान्नेतव्यम् । उपाध्युत्पत्त्यास्योत्पत्तिस्तप्रलयेन च प्रलय इति ।
तथा च दर्शयति- प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्त्थाय तान्येवानुविनश्यति
न प्रेत्य संज्ञास्ति - बृ० उ० ४/५/१३ - (ब्र० सू० २ । ३ । १७) । सात्त्विकैर्धीन्द्रियैः
साकं विमर्शात्मा मनोमयः । तैरेव साकं विज्ञानमयो धीर्निश्चयात्मिका
(प० द० १।३५ ) ।
 
-
 
विज्ञानस्कन्धः - बौद्धदर्शने पञ्च स्कन्धाः । तेष्वन्यतमोऽयं विज्ञानस्कन्धः ।
यथा - तत्रैते त्रयो वादिनो भवन्ति - केचित् सर्वास्तित्ववादिनः, केचिद्
विज्ञानास्तित्व मात्रवादिनः अन्ये पुनः सर्वशून्यवादिन इति । तत्र ये सर्वास्तित्ववादिनो
बाह्यमान्तरं च वस्त्वभ्युपगच्छन्ति भूतं भौतिकं च चित्तं चैत्रं च तांस्तावत् प्रतिब्रूमः ।
तत्र भूतं पृथिवीधात्वादयः ।भौतिकं रूपादयश्चक्षुरादयश्च । चतुष्टये च पृथिव्यादिपरमाणवः
खरस्नेहेरणस्वभावास्ते पृथिव्यादिभावेन संहन्यन्त इति मन्यन्ते । तथा रूपविज्ञान-
वेदनासंज्ञासंस्कारसंज्ञकाः पञ्च स्कन्धा : ( २ । २ ।८१ । शाः भा०) अत्र भामती -
यद्यपि वैभाषिक-सौत्रान्तिकयोरवान्तरमतभेदोऽस्ति । तथापि सर्वास्तितायामस्ति
सम्प्रतिपत्तिरित्येकी- कृत्योपन्यासः । तथा त्रित्वमुपपन्नमिति । पृथिवी खरस्वभावा आपः
स्नेहस्वभावाः अग्निरुष्णस्वभावः वायुरीरणस्वभावः । ईरणं प्रेरणम् । भूतभौतिकानुक्त्वा
चित्त-चैत्तिकानाह- तथारूपेति । रूप्यन्ते एभिरिति रूप्यन्त इति च व्युत्पत्त्या
सविषयाणीन्द्रियाणि रूपस्कन्धः । यद्यपि रूप्यमानाः पृथिव्यादयो बाह्याः, तथापि
कायस्थत्वाद्वा इन्द्रियसम्बन्धाद्वा भवन्त्याध्यात्मिकाः । विज्ञानस्कन्धोऽहमित्याकारो
रूपादिविषय इन्द्रियादिज़न्यो वा दण्डायमानः । वेदनास्कन्धो वा प्रियाप्रियानुभवविषयस्पर्शे
सुखदुःखतद्रहितविशेषावस्था चित्तस्य जायते स वेदनास्कन्धः । संज्ञास्कन्धः
सविकल्पप्रत्ययः संज्ञासंसर्गयोगप्रतिभासः यथा द्वित्थः कुण्डली गौरो ब्राह्मणो
गच्छतीत्येवं जातीयकः । संस्कारस्कन्धो रागादय: क्लेशाः उपक्लेशाश्च मदमानादयः
धर्माधर्मौ चेति । तदेतेषां समुदायः पञ्चस्कन्धी । अत्र कल्पतरुपरिमलः
अहमित्याकारमालयविज्ञानमिति । तस्मादालयविज्ञानं यद् भवेदहमास्पदम् ।