This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
आत्मा चित्तं यस्य स ज्ञानविज्ञानतृप्तात्मा" (गी० ६।८ नी० क०) । ६. मानसी
क्रिया । यथा - मानसक्रियात्वाच्च विज्ञानस्य (बृ० उ० ९।४।७) ।
 
१. बुद्धिशब्दवदस्यार्थोऽनुसन्धेयः । २. पौराणिकाश्च चतुर्दशविद्याधारणमित्याहुः ।
तदुक्तम्- चतुर्दशानां विद्यानां धारणं हि यथार्थतः । विज्ञानमितरद्विद्याद्येन धर्मो
विवर्धते । (कूर्म० पु० अ० १४) (वाच०) इति । ३. मायावादिनस्तु अविद्यावृत्ति
विशेषः आत्मैक्यज्ञानं च विज्ञानमित्यङ्गीचक्रुः । ४. काव्यज्ञास्तु शिल्पादिज्ञानं इत्याहुः ।
५. विज्ञानवादिनो बौद्धास्तु विज्ञानं द्विविधम् - प्रवृत्तिविज्ञानम् आलयविज्ञानं च ।
तत्राद्यम् अयं घटः इत्याद्याकारकम् । द्वितीयं च अहं जानामि इत्याकारकम् । तदेव
आत्मा इत्युच्यते इति वदन्ति । ६. निरवशेषशास्त्रविषयं ग्रन्थतोऽर्थतश्च सिद्धिज्ञानं
विज्ञानम् (सर्व० सं० पृ० १६६ नकुली०) । वासना १. (गुणः) स्मृतिहेतुः संस्कार-
विशेषः (जय०) । २. शक्तिविशिष्टचित्तोत्पादः (न्या० वा० १/१/१० पृ० ६९ ) ।
३. मिथ्याज्ञानजन्यो गौरोऽहम् इत्यादिमानसज्ञानजनको दोषविशेषः । यथा आत्मा
देहाद्यभिन्नः इति (ग० २ हेत्वाभा० सामान्य०) ।४. एकसन्तानवर्तिनामालयविज्ञानानां
तत्तत्प्रवृत्तिजननशक्तिः इति विज्ञानवादिनो बौद्धा आहुः (सर्व० पृ०३७ बौद्ध०) ।
५. ग्रहस्पष्टीकरणाद्युपयोगी संस्कारविशेषः इति ज्योतिः शास्त्रज्ञा गणका आहुः
६. ज्ञानम् । ७. प्रत्याशा इति पौराणिका आहुः । ८. सुरभीकरणम् इत्यालङ्कारिका
आहुः । ९. भगवदिच्छा । प्रकृतिर्वासनेत्येव तवेच्छानन्त कथ्यते । प्रकृतिः प्रकृष्ट-
करणाद्वासनां वासयेद्यतः (सर्व० सं० पृ० १४१ रण० ) । भूतैर्वाय्ववयवैरारब्धं
सर्वशरीरत्यापि त्वक् । ३. विषयस्तूपलभ्यमानस्पर्शाधिष्ठानभूतः स्पर्शशब्दधृतिकम्पलिङ्ग:-
तिर्यग्गमनस्वभावकः मेघादिप्रेरणधारणादिसमर्थः । ४. प्राणोन्तः शरीरे रसमलधातूनां
प्रेरणादिहेतुः एकः सन् क्रियाभेदादिभिरपानादिसंज्ञा लभते (प्रशस्त० पृ० ५) (प०
भा०) । इति । नव्यास्त्वित्थं वदन्ति । अनित्यस्त्रिविधः शरीरम् इन्द्रियम् विषयश्च
(न्यायकोशः) ।
 

 
-
 
विज्ञानकलः - विज्ञानयोगसंन्यासैर्भोगेन वा कर्मक्षये सति कर्मक्षयार्थस्य
कलादेर्भोगसम्बन्धस्याभावात्केवलनखगात्रयुक्तो विज्ञानकल: (सर्व० सं० पृ० १८२
शै०) (न्यायकोशः) ।
 
-
 
विज्ञानमयः - १. पञ्चकोशेषु अन्यतमः । पञ्चकोशाः - अन्नमयः प्राणमयः,
मनोमयः, विज्ञानमयः आनन्दमयश्चेति । बुद्ध्यात्मकः । यथा- एतेषु कोशेषु मध्ये
विज्ञानमयो ज्ञानशक्तिमान् कर्तृरूप: (वे० सा०) । २. आत्मा - "यथा च" आत्मा