This page has been fully proofread once and needs a second look.

"
 
शाङ्कुरवेदान्तकोशः
 
स्मृतिश्च । अत्र वेदपदं स्मृत्याधुपलक्षणम् । न कुर्यान्निष्फलं कर्म इत्यादिना

निष्फलजलताडनादेरपि निषिद्धत्वात् । २. लौकिकविषयकत्वम् । ३. वेदनिषिद्ध-

विषयकत्वम् । यथा मङ्गलं कर्तव्यम् अलौकिकाविगीतशिष्टाचारविषयत्वात् दर्शादिवत्

इत्यादौ विगीतत्वम् (न्याथ कोशः) ।
 
-
 

 
विजिगुप्सा - , विजिगुप्सा
घृणा । यथा- "विजुगुप्सते विजिगुप्सां घृणां न करोति ।

....सर्वा हि घृणाऽऽत्मनोऽन्यद् दुष्टं पश्यतो भवत्यात्मानमेवात्यन्तं विशुद्धं निरन्तरं

पश्यतो न घृणानिमित्तमर्थान्तरमस्तीति प्राप्तमेतावतो न विजिगुप्सत इति"

(ई० उ० ६ शा० गा० ) ।
 
-
 
विज्ञानम् -

 
विज्ञानम्, विज्ञान
१. ब्रह्म । यथा- विज्ञानं ब्रह्मेति व्यजानात् । विज्ञानाद्ध्येव

खल्विमानि जायन्ते विज्ञानेन जातानि जीवन्ति विज्ञानं प्रयन्त्यभिसंविशन्तीति ।

२. अनुभवः । यथा - ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह

भूयोऽन्यज्ज्ञातव्यमवशिष्यते (गी० ७ । २) । अत्र शाङ्करभाष्यम्- अहं सविज्ञानम्

विज्ञानसहितं स्वानुभवसंयुक्तम् । अत्र श्रीधरी - ज्ञानं शास्त्रीयं विज्ञानमनुभवस्तत्सहितम् ।

यथा च – ज्ञानविज्ञानतृप्तात्मा (गी० ६।८) अत्र श्रीधरी ज्ञानमौपदेशिकं विज्ञानमप-

रोक्षानुभवः । ३. ज्ञानम् - आत्मविषयम् । यथा - बुद्धिर्ज्ञानमसम्मोहः (गी० १०।४) ।

अत्र श्रीधरी - बुद्धिः सारासारविवेकनैपुण्यम् । ज्ञानमात्मविषयम् । यथोक्तं विज्ञान-

सुनिश्चितार्थाः । बौद्धदर्शनस्य पारिभाषिकः शब्दः- आलयविज्ञानं प्रवृत्तिविज्ञानं च ।

५. लोके - विज्ञानं शिल्पकला कौशलम् ।
 
-
 

२. आनन्दः । यथा – "विज्ञप्तिर्विज्ञानम्, तच्च आनन्दम् । न विषयविज्ञानवद्

दुःखानुविद्धम् । किं तर्हि शिवमतुलमनायासं नित्यतृप्तमेकरसमित्यर्थः " ( बृ० उ०

३।९।७)। ३. प्रमाणजन्यं प्रतिबन्धाभावविशिष्टम् अपरोक्षज्ञानम् । यथा

"असम्भावनादिनिरासे तु विचारपरिपाकान्ते तेनैव प्रमाणेन जनितं ज्ञानं प्रतिबन्धा-

भावात्फलं जनयदपरोक्षमित्युच्यते विचारपरिपाकनिष्पन्नत्वाच्च तदेव विज्ञानम्"

(गी० ७।२ म० सू०) । ४. अनुभवयुक्तं ज्ञानम् । यथा - "विज्ञानसहितम्

अनुभवयुक्तम्" (गी० ९।१ शा० भा० ) । यथा च - विज्ञानमनुभवः साक्षात्कारस्तेन

सहितमित्यर्थः (तत्रैव आ० गि०) । यथा च - "विशेषेण ज्ञायतेऽनेनेति विज्ञान-

मुपासनं तत्सहितं ज्ञानमीश्वरविषयमिदम्" (तत्रैव श्रीधरी) । ५. प्रमारूपोऽनुभवः ।"

यथा – "विज्ञानं शास्त्रार्थध्यानजः प्रमारूपोऽनुभवस्ताभ्यां तृप्तः संजातालंप्रत्ययः
 
-