This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
विकार्यम् - १. आप्यम्, २. व्याकरणशास्त्राभिमतकर्मभेदः, यथा- ओदनं
पचतीत्यत्र ओदनादिः। ३. यागप्रकरणे सोम आदि । यथा - "विकार्यमाप्यम्"
(ई० उ० सं० भा०) । यथा च - "विकार्यः सोमादि:" (आ० गि० सं० भा० टी०) ।
 
३९४
 
विक्षेपः - अविद्यायाः शक्तिविशेषः । अविद्यायाः शक्तिद्वयम् - आवरणशक्तिः
विक्षेपशक्तिश्च। अनया विक्षेपशक्त्या शुद्धं चैतन्यं बुद्धम् जगदाकारेण विवर्तते
भासते । विक्षेपश्च ब्रह्मणो भोक्तृभोग्यविविधाकारेण क्षेपणं विकीरणम् । यथा-
"अज्ञानं कर्तृ वस्तुतो निर्विभागमप्यात्मस्वरूपं जीवत्वेश्वरत्वजगदाकारैर्विक्षिपति,
विभजत इत्यर्थः" (सं० शा० का० २० सु० टी०) । यथा च – "अज्ञानं यथाव्याख्यात-
स्वभावं स्फुरत्स्वमाहिम्नैव स्वप्रकाशरूपेण सम्यग्भासमानमात्मनः प्रत्यग्रूपस्य रूपं
याथाम्यं परिपूर्णमखण्डाद्वयब्रह्मलक्षणमाच्छाद्य प्रतिबद्ध्य तदेवाऽत्मरूपं जीवेश्वरत्वजगदा-
कृतिभिर्भोक्तृनियन्तृभोग्याकारैरनेकधा विक्षिपति विविधं क्षिपति विकीरतीति । स च
विक्षेप आवरणं चानिर्वचनीयाज्ञानकृतत्वान्मृषैव न परमार्थत इत्यर्थ:" (सं० शा०
१।२० अ० का० टी०) ।
 
-
 
विक्षेपशक्तिः - अज्ञानस्य शक्तिद्वयम् - आवरणशक्तिर्विक्षेपशक्तिश्च । आवरण-
शक्त्या अपरिच्छिन्नमात्मानमावृणेति अज्ञानम् । विक्षेपशक्त्या रज्जौ सर्पादिक-
मुद्भावयति यथा - विक्षेपशक्तिस्तु यथा रज्ज्वज्ञानं स्वावृत्तरज्जौ स्वशक्त्या
सर्पादिकमुद्भावयति एवमज्ञानमपि स्वावृतात्मनि विक्षेपशक्त्याकाशादिप्रपञ्चमुद्-
भावयति तादृशं सामर्थ्यम् । तदुक्तम् - विक्षेपशक्तिर्लिङ्गादिब्रह्माण्डान्तं जगत् सृजेत्
(वे० सा०) । इदं च मूलाविद्या तूलाविद्येति शब्दाभ्यामप्यधीयते । आकाशाद्युपादानभूता
मूलाविद्या । या केवलं चिन्मात्राश्रिता भवति चिदेव च तस्या विषयो भवति तथा
सा निर्विकल्पकज्ञानेन निवर्त्यते । तूलाविद्या तु शुक्त्यवच्छिन्नचैतन्याश्रिता भवति तथा
रजतभिन्ना या शुक्तिस्तन्निष्ठं यच्छुक्तित्वं तदाश्रिता भवति । एषा तूलाविद्या
सविकल्यकज्ञानेन निवर्त्यते ।
 
विक्षेपाध्यासः- तूलाविद्यया जगदध्यासः । यथा अविद्यावृतकूटस्थे देहद्वययुता
चितिः । शुक्तौ रूप्यवदध्यस्ता विक्षेपाध्यास एव हि (प० द० ६।३३) ।
 
-
 
विगीतम् – १ . वेदनिषिद्धम् । २. निन्दितम् (चि० १ ) । यथा सुरापानादेर्विगीतत्वम् ।
अत्र निषेधकश्रुतिः न सुरां पिबेत् इत्यादिः । सर्वं मद्यमपेयम् (आप० स्मृ०) इति