2023-03-26 05:36:13 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
दर्शयति.....। आमनन्ति चैनस्मिन् अविमुक्ते अविद्योपाधिकल्पितावच्छेदे जीवात्मनि
स खल्वविमुक्तः । तस्मिन्प्रतिष्ठितः परमात्मा, तादात्यात्" (तत्रैव भाम०) ।
-
बा
वासना
कृतस्य कर्मणो वासितो भावः । सा देहान्तरारम्भिका । देहान्तरेषु
तिष्ठत्यपि । यथा - "तत्र वासना पूर्वप्रज्ञाख्या विद्याकर्मतन्त्रा जलूकावत् सन्ततैव
स्वप्नकाल इव कर्मकृतं देहाद् देहान्तरामारभते हृदयस्थैव पुनर्देहान्तरारम्भे पूर्वाश्रयं
विमुञ्चति (बृ० उप० ४।४।२ शा० भा०) ।
बा
वासुदेवः
सर्वात्मा । यथा- "मत्परोऽहं वासुदेवः सर्वप्रत्यगात्मा परो यस्य
स मत्परो नान्योऽहं तस्मादित्यासीतेत्यर्थः" (गी० २।६१ शा० भा० ) । यथा च -
"तस्मात् सर्वाणि वशीकृत्य युक्तः समाहितः सनू मत्परोऽहं वासुदेवः सर्वप्रत्यगात्मा
परो यस्य स मत्परो नान्यस्तस्मादहमित्यासीतेत्यर्थ: (गी० २६१ भाष्यो०) ।
विकल्पना
संशयविपर्ययाः । यथा - "न तु वस्त्वेवं नैवमस्ति नास्तीति वा
विकल्यते विकल्पनास्तु पुरुषबुद्ध्यपेक्षाः" (ब्र० सू० १ । १ । २ शा० भा० ) । यथा
च – "पुरुषबुद्धिः अन्तःकरणं तदपेक्षाविकल्पनाः संशयविपर्यासाः (तत्रैव भाम०) ।
विकारः
सर्वोऽपि लोकव्यवहारः । यथा - "यस्मात्तदृष्टिं विसृज्य तन्निकटं
विवर्तं परिगृह्य सर्वं विकारं संव्यवहारमात्रं कृत्वाऽ द्वैतमेव परिरक्षति तस्मादेवं निश्चय
इत्यर्थ: (सं० शा० ३।२२० सु० बो०) । विकारं परिणामं विवर्तदर्शनं
परिगृह्यार्थान्तरं सर्वं विकारं संव्यवहारमात्रं न परमार्थं मायामयमेवेति च परिशेषतः
परिगृह्य योजना" (सं० शा० ३।२२० अ० टी०) । यथा च - "तत्क्षेत्रं समासेन
सविकारं सह विकारेण महदादिनोंदाहृतमुक्तम्" (गी० १३।७ शा० भा० ) ।
तथा च – "विकारो जन्मादिर्नाशान्तः परिणामः" (तत्रैव म० सू०) । यथा च-
"एतत्क्षेत्रं सविकारं विकारेण महदादिना तद्विकारेण चेच्छादिना सहितं समासेन
संक्षेपेणोदाहृतमुक्तम्" (तत्रैव भाष्यो०)।
-
-
विकारभेदः
विकारो हि द्विप्रकारः कश्चिच्छुक्तिरूप्यादिः स्वरूपेणाध्यस्तः,
कश्चित्तु प्रतिबिम्बघटाकाशादिरूपाधितो विभक्तः, तत्र प्राणाधुपाधिविभक्त आत्मा
तद्विकारः । अथवा - भृगुवल्ल्युक्ताधिदैविकान्नादीन्प्रत्याध्यात्मिका अन्नमयादयः
कोशा विकारा इति" (ब्र० सू० १/१/१२ वे० क० त० ) ।