This page has been fully proofread once and needs a second look.

३९२
 
शाङ्करबेदान्तकोशः
 
वायुमित्यतो न तादाम्यं स्फुटमवगम्यते । तथापि वायुर्भूत्वेत्यादेः स्फुटतरं तादात्याव-

गमाद् यथैतमाकाशमित्येदपि तादात्म्य एवावतिष्ठते । न चान्यस्यान्यथाभावानुपपत्तिः ।

मनुष्यशरीरस्य नन्दिकेश्वरस्य देवदेहरूपपरिणामस्मरणाद् देवदेहस्य च नहुषस्य

तिर्यक्त्वस्मरणात्। तस्मान्मुख्यार्थपरित्यागेन न गौणीवृत्तिराश्रयणीया । गौण्यां

च वृत्तौ लक्षणाशब्दः प्रयुक्तो गुणे लक्षणायाः सम्भवात् । १. (द्रव्यम्) (क)

वायुत्वसामान्यवान् (त० कौ०) (प्रशस्त०) । वायुश्च पञ्चमहाभूतान्तर्गतः । (ख)

रूपरहितः स्पर्शवान् । अत्र सूत्रम् - स्पर्शवान् वायुः (वै० २।१।४) इति । तल्लक्षणं

च स्पर्शेतरविशेषगुणासमानाधिकरणविशेषगुणसमानाधिकरणजातिमत्त्वम् (वै० उ०

२।१।४) । अथवा रूपाभावे सति स्पर्शवत्त्वम् (वाक्य० १।४) । समवायेन

रूपवदवृत्तिस्पर्शवत्त्वमित्यर्थः (ल० वं ० ) । अथवा पाकजस्पर्शवदवृत्त्यनुष्णाशीत-

स्पर्शवद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम् (दि० १ पृ० ८३) । स चायं वायुर्द्विविधः

नित्यः अनित्यश्च । तत्र नित्यः परमाणुलक्षणः । अनित्यः कार्यलक्षणः नाना च । तस्य

वायोः अप्रत्यक्षस्यापि नानात्वं सम्मूर्च्छनेनानुमीयते । अत्र सूत्रम् - वायोर्वायुसम्मूर्च्छनं

नानात्वलिङ्गम् (वै०२।१।१४) इति । सम्पूर्च्छनं पुनः समानजवयोर्वाय्वोर्विरुद्धदिक्क्रिययोः

संनिपातः । सोऽपि सन्निपातः सावयविनोर्वाय्वोरुर्ध्वगमनेनानुमीयते । तच्च वाय्योरुर्ध्व-

गमनं प्रत्यक्षेण तृणादिगमनेन अनुमीयते (प्रशस्त० वायुनि० पृ० ५) (वै० उ०

२।१।१४) इति । अत्र भाष्यकारा आहुः । कार्यलक्षणः अनित्यो वायुः चतुर्विधः

शरीरम् इन्द्रियं विषयः प्राणः इति । तत्र १. अयोनिजमेव शरीरं मरुतां लोके ।

पार्थिवावयवोपष्टम्भाच्चोपभोगसमर्थम् । २. इन्द्रियं सर्वप्राणिनां स्पर्शोपलम्भके

पृथिव्यादौ (न्यायकोशः) ।
 
-
 
-
 
बा

 
वा
राणसी - , वाराणसी
१ . आत्मा अविमुक्ते प्रतिष्ठितः । स च अविमुक्तः वरणायां नास्यां

च मध्ये प्रतिष्ठितः । तच्च स्थानं भ्रुवो घ्राणस्य च सन्धिभागः । २. श्री विश्वनाथप्रिय-

नगरी च । यथा - "वरणायां नास्यां च मध्ये प्रतिष्ठित इति । का वै वरणा का

च नासीति' तत्र चेमामेव नासिकां वरणा नासीति निरुच्य या सर्वाणीन्द्रियकृतानि

पापानि वारयतीति सा वरणा सर्वाणीन्द्रियकृतानि पापानि नाशयतीति सा नासीति

पुनरामनन्ति कतमच्चास्य स्थानं भवतीति । भ्रुवो घ्राणस्य च यः सन्धिः स एष

धुलोकस्य परस्य च सन्धिर्भवतीति (जाबा० उ० १) तस्मादुपपन्ना परमेश्वरे प्रादेशमात्रश्रुतिः

(ब्र० सू० १ । २ । ३२ शा० भा०) । यथा च – "मूर्धानमुपक्रम्य चुबुकान्तो हि कायप्रदेशः