This page has not been fully proofread.

शावेदान्तकोशः
 
३९१
 
संयवाम इत्याचक्षत एतं हि सर्वाणि वामान्यभिसंयन्ति ।" एष उ एव वामनीरेष
सर्वाणि वामानि नयति एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति - छा०
४/१५/२,३,४
- इति च (ब्र०सू० १ । २ । १३) अत्र भामती- वननीयानि सम्भजनीयानि
शोभनीयानि पुण्यफलानि वामानि । संयान्ति संगच्छमानानि वामान्यनेनेति संयवामः
परमात्मा । तत्कारणत्वात्पुण्यफलोत्पत्तिस्तेन पुण्यफलानि सङ्गच्छन्ते । स एव पुण्यफलानि
वामानि नयति लोकमिति वामनीः ।
 
-
 
-
 
बामनीत्वम् – फलप्रापकत्वम् । तच्च ब्रह्मण उपपद्यते । सर्वगन्धत्वसर्वरसत्ववद्
वामनीत्वं ब्रह्मण उपाधिः । यथा च - "वामनीत्वादिलक्षणं ब्रह्म" (ब्र० सू० ३।२।१२
शा० भा० ) । यथा च - "तस्मान्निर्विशेषमेकरूपं चैतन्यैकरसं सद् ब्रह्म परमार्थतः,
विशेषाश्च सर्वगन्धत्ववामनीत्वादय उपाधिवशादध्यस्ता इति सिद्धम्" (ब्र० सू०
३।२।१२ भाम०) । यथा च - संयद्वामत्वं फलोत्पादकमात्रं वामनीत्वं फलप्राप-
कत्वंमिति भेदः (ब्र० सू० २ ।३।१३ वे० क० त० ) । यथा च वन सम्भक्ताविति
धातोरौणादिकप्रत्ययान्ततया निष्पन्नो वामशब्दः सम्भजनीयवाची शोभनेषु पुण्यफलेषु
स्वर्गादिभोग्यवस्तुषु पर्यवस्यतीति भावः । निमित्तीकृत्येत्यपेक्षितो ऽध्याहारः, तदनध्याहारे
परमेश्वरस्यैव फलभोक्तृत्वप्रतिपादकत्वापत्तेरिति भावः (ब्र० सू० २ । ३ । १३ क०
त० प० ) ।
 
-
 
-
 
-
 
बापुः- १. पञ्चमहाभूतेष्वन्यतमः । यथा - "वायवः प्राणापानव्यानोदानसमानाः ।
प्राणो नाम प्राग्गमनवान्नासाग्रस्थानवर्ती । अपानो नामार्वाग्गमनवान्पाय्वादिस्थानवर्ती ।
व्यानो नाम विष्वगूगमनवानखिलशरीरवर्ती । उदानो नाम कण्ठस्थानीय उर्ध्वगमन-
वानुत्क्रमणवायुः । समानो नाम शरीरमध्यगताशितपीतान्नादिसमीकरणकरः । केचित्तु
नागकूर्मकृकलदेवदत्तधनञ्जयाख्याः पञ्चान्ये वायवः सन्तीति वदन्ति । तत्र नाग
उद्गीरणकरः । कूर्म उन्मीलनकरः कृकलं क्षुत्करः । देवदत्तो जृम्भणकरः । धनञ्जयः
पोषणकरः । एतेषां प्राणादिष्वन्तर्भावात्प्राणादयः (वे० सा० ) । यथा च तत
आकाशादीनि पञ्चभूतानि अपञ्चीकृतभूतानि तन्मात्रपदप्रतिपाद्यानि उत्पद्यन्ते ।
तत्राकाशस्य शब्दो गुणः । वायोस्तु शब्दस्पर्शी (वे० प० ७ प०) । २. पवनस्तथा इतः
प्रेत्य पुनरावर्तने वायुस्वरूपोपलब्धिरथवा वायुनामक एको मार्गविशेषः । यथा -
"अथैतमेवाध्वानं पुनर्निवर्तते यथैतमाकाशमाकाशाद् वायुं वायुर्भूत्वा धूमो भवति
धूमो भूत्वाऽभ्रं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति" - छा० ५1१०1५-
इति" (ब्र० सू० ३ । १ । २२ शा० भा० ) । अत्र भामती - यद्यपि यथेतमाकाशमाकाशाद्
 
-