This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
बा
वाक्यप्रमाणम्, वाक्यप्रमाण
यस्य वाक्यस्य तात्पर्यविषयीभूतसंसर्गो मानान्तरेण न बाध्यते

तद्वाक्यं प्रमाणम् । वाक्यजन्यज्ञाने च आकाङ्क्षायोग्यताऽऽसत्तयस्तात्पर्यज्ञानं चेति

चत्वारि कारणानि (वे० प० ३ प०) ।
 
३९०
 
बा

 
वा
क्यार्थः - , वाक्यार्थ
वाक्यजन्यं ज्ञानम् । स च अखण्डार्थः । तेन वेदान्तवाक्यानाम-

खण्डार्थत्वम् । तत्र यथार्थसंसर्गो न प्रयोजकः । अनभिमतस्यापि संसर्गस्य बोध-

विषयत्वापत्तेः । अतस्तत्र वाक्यजन्यज्ञाने तात्पर्यविषयत्वमेव प्रयोजकम् । यथा - "ननु

वाक्यजन्यज्ञानस्य पदार्थसंसर्गावगाहितया कथं निर्विकल्पकत्वम् उच्यते । वाक्यजन्यज्ञान-

विषयत्वे हि न पदार्थसंसर्गत्वं तन्त्रम्, अनभिमतसंसर्गस्यापि वाक्यजन्यज्ञानविषयत्वापत्तेः,

किन्तु तात्पर्यविषयत्वम् । प्रकृते च 'सदेव सौम्येदमग्र आसीत्' - छा० ६-२-१-

इत्युपक्रम्य 'तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो' छा० ६-८-७ इत्युपसंहारेण विशुद्धे

ब्रह्मणि वेदान्तानां तात्पर्यमवसितमिति कथं तात्पर्याविषयसंसर्गमवबोधयेत् । इदमेव

तत्त्वमस्यादिवाक्यानामखण्डार्थत्वम्, यत् संसर्गानवगाहियथार्थज्ञानजनकत्वमिति ।

तदुक्तम्- संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम् । उक्ताऽखण्डार्थता यद्वा

तत्प्रातिपदिकार्थता ॥ प्रातिपदिकार्थमात्रपरत्वं वाऽखण्डार्थत्वमिति चतुर्थपादार्थः

(वे० प० १ प०) । यथा च - अपर्यायशब्दानां संसर्गागोचरप्रमितिजनकत्वम-

खण्डार्थता ।... यद्वा अपर्यायशब्दानाम् एकप्रातिपदिकार्थमात्रपर्यवस्तायित्वमखण्डार्थता ।

नापि प्रमाणासम्भवः । तथाहि - सत्यज्ञानादिगीरेतत् संसर्गव्यतिरेकिणि । अर्थे

प्रमाणं मानत्वान्नयनादिप्रमाणवत् । २० । सत्यादिवाक्यमेतत्पदार्थसंसर्गातिरिक्तेऽर्थे

प्रमाणं प्रमाणत्वाच्चक्षुरादिवत् (त० प्र०) । यथा च तच्चाखण्डार्थं द्विविधम्

एकपदनिष्ठम् अपरं वाक्यार्थनिष्ठम् ।.....अत्राहुः किमखण्डार्थत्वम् ।
अपर्याय-
शब्दानां संसर्गागोचरप्रमितिजनकत्वम् (अ० सि० २ प०) । यथा च – "यत्पूर्वमर्थैक-

त्त्वादेकं वाक्यमित्यत्र व्यक्तिपदार्थपक्षे संसर्गस्य पदार्थान्तर्गतत्वात् शुक्लो गौरिति

कृष्णाश्वादिव्यवच्छेदमात्रं वाक्यार्थः । आकृतिपक्षे शुक्लत्वगोत्वयोः स्वरूपेणा-

भिहितयोरन्योन्यानुरञ्जनात्मकः संसर्गो वाक्यार्थमिति भट्टादिभिरुक्तम् । नैतज्ज्ञान-

काण्डेऽभिमतं यतोऽद्वितीये वस्तुनि निष्प्रयोगिकभेदसंसर्गादिरसम्भवाद् वर्जितं

तत्त्वमर्थयोरत्यन्ताभेदमेव वाक्यार्थं भाष्यकारादय इच्छन्तीत्यर्थः (सं० शा० १ ।१४६

सु० टी०) ।
 
-
 
-
 
अपर्याय
 
-
 
....
 
-
 
बा

 
वा
मनीः, वामनी
वामः शोभनपुण्यफलस्वर्गादिभोग्यवस्तु तन्नयतीति वामनीः शुभ-

पुण्यफलदाता परमेश्वरः
 
। यथा - संयद्वामत्वादिगुणोपदेशश्च तस्मिन्नवकल्पते ।'एतं