This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
३८९
 
एव शब्दः .....वर्णा एव तु शब्दः भगवानुपवर्षः (ब्र० सू० १ ।३।२८ शा० भा० ) ।

४. प्रणवः उद्गीथश्च । यथा - उद्गीथः प्रणवो वा । उत्प्राणेन वाहीदं सर्वमुत्तब्धं

वागेव गीथोच्च गीथा चेति स उद्गीथः (बृ० उ० १ । ३ । २२ ) । यथा- विश्वमिदं

वाचम् (ऋ० वे० १ । १६४/२०) । वागू ब्रह्मैवैतत् (जै० उ० २ । १३ । २ ) । वाचा

हीदं सर्वं मनुते ( शत० ब्रा० ३।६।२।२) । वाग् वै विराट् (तत्रैव ८।१।२।८) ।

वाग् वै सम्राट् परमं ब्रह्म (तत्रैव ३।५।१।३४) । सर्वमिदं गोरूपम् (ऐ० उप०

३।६।७) । वाच्येव विश्वं निबद्धम् (वा० प० १/११० स्वो० वृ०) ।
 
-
 
-
 
बाक्यम् –

 
वाक्यम्, वाक्य
पदसमूहो वाक्यम् (त० सं० ) । पदान्तरसमभिव्याहारो वाक्यम्

(मी० प०) । समभिव्याहरश्च अव्यवधानेनोच्चारणम् । तत्र विधायकवाक्यं ब्राह्मणम्

(वेदस्यैको भेदः) । वेदो द्विविधो मन्त्ररूपो ब्राह्मणरूपश्चेति । ब्राह्मणवाक्यं चानेकविधम्-

कर्मोत्पत्तिवाक्यं गुणवाक्यं फलवाक्यं फलाय गुणवाक्यं सगुणकर्मोत्पत्तिवाक्य-

मित्यादिभेदात् (मी०प० ) । यथा च आकाङ्क्षासन्निधियोग्यतावन्ति पदानि

वाक्यमिति वाक्यविदः (त० प्र० १ परि०) । यथा च - पदसमूहः । वाक्यत्वं च

विशिष्टार्थपरशब्दत्वम् (चि० ४) । वाक्यं द्विविधं प्रमाणवाक्यम् अप्रमाणवाक्यं चेति ।

तत्र प्रमाणवाक्यम् आकांक्षायोग्यतासन्निधिमतां पदानां समूहः । यथा गामानय इत्यादि

(त० भा० ४) (त० सं०) (सा० द०) । समभिव्याहारो वाक्यमिति मीमांसका आहुः ।

तदर्थश्च साध्यत्वादिवाचकद्वितीयाद्यभावेऽपि वस्तुतः शेषशेषिवाचकपदयोः सहोच्चारणम् ।

यथा यस्य पर्णमयी जुहूर्भवति न पापं श्लोकं ....शृणोति (तै० सं० ३/५।७)

इति । लिङ्गादिपदघटितं वाक्यं द्विविधम् - विधिः निषेधश्च । तत्र विधिः स्वर्गकामो

यजेत इत्यादिवाक्यम् । निषेधस्तु न कलजं भक्षयेत् न सुरां पिबेत् इत्यादि वाक्यम्

(लौ० भा०) । अप्रमाणवाक्यं तु आकाङ्क्षादिरहितवाक्यम् । यथा बहिना सिञ्चति

हदो वह्निमान् इत्यादिवाक्यम् । अत्र वाक्यदोषाश्चत्वारः भ्रमः प्रमादः विप्रलिप्सा

करणापाटवं चेति । प्रकारान्तरेण वाक्यं द्विविधम् - वैदिकं लौकिकं च । तत्र

वैदिकमीश्वरोक्तत्वात्सर्वमेव प्रमाणम् । लौकिकं त्वाप्तोक्तं प्रमाणम् । अन्यत्

(अनाप्तोक्तम्) अप्रमाणम् (त० सं०) । तत्र वेदघटकं वाक्यं वैदिकम् (वाक्य० ४

पृ० २०) । तस्येश्वरोक्तत्वे प्रमाणमनुमानम् । तच्च वेदः पौरुषेयो वाक्यत्वाद्भारतादिवत्

इति (त० दी० ४ पृ० ३२) (सि० च० ४ पृ० ३२) । प्रकारान्तरेणापि वाक्यं द्विविधम्

महावाक्यम् अवान्तरवाक्यम् (खण्डवाक्यम्) चेति । (न्यायकोशः) ।
 
-