This page has been fully proofread once and needs a second look.

४।८८
 
।४ शाङ्करवेदान्तकोशः
 
-
 
४।३।४ शा
० भा०) । यथा च
 
-- ते लोकाः कर्मफलानि लोक्यन्ते दृश्यन्ते भुज्यन्ते

जन्मानि (ई० उ० ३ शा० भा०) । उर्ध्वलोकाः सप्त तथा अधोलोकाः सप्त भवन्ति ।

यथा - एवं तमोगुणयुक्तेभ्यः पञ्चीकृतभूतेभ्यो भूम्यन्तरिक्षस्वर्महर्जनस्तपःसत्यात्म-

कस्योर्ध्वलोकसप्तकस्य अतलवितलसुतलतलातलरसातलमहातलपातालाख्याधोलोक-

सप्तकस्य ब्रह्माण्डस्य जरायुजाण्डजस्वेदजोद्भिज्जाख्यचतुर्विधस्थूलशरीराणामुत्पत्तिः

(वे० प० ७ प०) । यथा च- अष्टविधो दैवस्तैर्यग्योनयश्च पञ्चधा भवति ।

मानुष्यश्चैकविधः समासतो भौतिकः सर्गः (सा० का० ५३) । उर्ध्वं सत्त्वविशाल-

स्तमोविशालश्च मूलतः सर्गः । मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः (सा० का० ५४) ।

दैवः अष्टविधः- ब्राह्मः प्राजापत्यः ऐन्द्रः पैत्रः गान्धर्वः याक्षः राक्षसः पैशाचः ।

इमे लोका अपि कथ्यन्ते । एषु भुवः स्वर्महर्जनतपःसत्यलोकाः सत्त्वगुणप्रधानाः,

पातालादयोऽधो लोकास्तम प्रधानाः, मध्यलोकः पृथिवीलोको रजप्रधानः ।
 

 
-
 
-
 

 
शी - , वशिन्
१. इन्द्रियजित् । २. जितचित्तो योगी । यथा - "वशी जितेन्द्रिय

इत्यर्थ:" (गी० ५/१२ शा० भा० ) । यथा च - "जितेन्द्रियत्वं कायवशीकारस्या-

प्युपलक्षणम्" (तत्रैव आ० गि०) । यथा च - "वशी जितचित्तः समाधिस्थो योगी"

(तत्रैव नी० क०) । यथा च - "यत्तु वशी विवेकवैराग्यसम्पन्नः" (तत्रैव भाष्यो०) ।

यथा च "वशी यतचित्तः (तत्रैव श्रीधरी) ।
 
-
 
-
 

 
सुः, वसु
सर्वव्यापकः सूर्यः । यथा - "वासयति सर्वानिति" (का० उ०५/२

शा० भा०) ।
 

 
वस्त्वाभासः
 
, वस्त्वाभास
वस्तुन इवाभासः । वस्तुन इव ज्ञानम् = "वस्तु द्रव्यं धर्मि

तद्वत् अवभासत इति वस्त्वाभासम् । यथा - स एव देवदत्तो गौरो दीर्घ इति (मा०

उ० गौ० का० ४।४५ शा० भा० ) ।
 
-
 
-
 
बाकू -

 
वाक्, वाच्
१. तदधिष्ठातृदेवताधिष्ठितं वागिन्द्रियम् । यथा - ज्योतिरादिभिरग्न्याद्यभि-

मानिनीभिर्देवताभिरधिष्ठितं वागादिकरणजातम् । अग्नेश्चायं वाग्भावो मुख-

प्रवेशश्च देवतात्मनाऽधिष्ठातृत्वमङ्गीकृत्योच्यते (ब्र० सू० २।४।१४ शा० भा० ) ।

२. ब्रह्म । यथा - स उ एष ब्रह्मणस्पतिर्वाग् वै ब्रह्म (बृ० उ० १ ।३।२१) । शालिनि

र्वाक् वै ब्रह्म (बृ० उ० ४।१।२) । यदि वै प्रजापतेः परमस्ति वागेव (श० प०

ब्रा० ५ । १ ।३।३) । स यो वाचं ब्रह्मेत्युपास्ते (छा० उ० ७।२।२) । चत्वारि वाक्

परिमिता पदानि तानि (ऋ०वे० १/१६४/१०) । ३. स्फोटः । यथा तस्मात् स्फोट
 
-
 
SS