This page has not been fully proofread.

३८८
 
शाङ्करवेदान्तकोशः
 
-
 
४।३।४ शा० भा०) । यथा च
 
ते लोकाः कर्मफलानि लोक्यन्ते दृश्यन्ते भुज्यन्ते
जन्मानि (ई० उ० ३ शा० भा०) । उर्ध्वलोकाः सप्त तथा अधोलोकाः सप्त भवन्ति ।
यथा - एवं तमोगुणयुक्तेभ्यः पञ्चीकृतभूतेभ्यो भूम्यन्तरिक्षस्वर्महर्जनस्तपःसत्यात्म-
कस्योर्ध्वलोकसप्तकस्य अतलवितलसुतलतलातलरसातलमहातलपातालाख्याधोलोक-
सप्तकस्य ब्रह्माण्डस्य जरायुजाण्डजस्वेदजोद्भिज्जाख्यचतुर्विधस्थूलशरीराणामुत्पत्तिः
(वे० प० ७ प०) । यथा च- अष्टविधो दैवस्तैर्यग्योनयश्च पञ्चधा भवति ।
मानुष्यश्चैकविधः समासतो भौतिकः सर्गः (सा० का० ५३) । उर्ध्वं सत्त्वविशाल-
स्तमोविशालश्च मूलतः सर्गः । मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः (सा० का० ५४) ।
दैवः अष्टविधः- ब्राह्मः प्राजापत्यः ऐन्द्रः पैत्रः गान्धर्वः याक्षः राक्षसः पैशाचः ।
इमे लोका अपि कथ्यन्ते । एषु भुवः स्वर्महर्जनतपःसत्यलोकाः सत्त्वगुणप्रधानाः,
पातालादयोऽधो लोकास्तम प्रधानाः, मध्यलोकः पृथिवीलोको रजप्रधानः ।
 

 
-
 
-
 
बशी - १. इन्द्रियजित् । २. जितचित्तो योगी । यथा - "वशी जितेन्द्रिय
इत्यर्थ:" (गी० ५/१२ शा० भा० ) । यथा च - "जितेन्द्रियत्वं कायवशीकारस्या-
प्युपलक्षणम्" (तत्रैव आ० गि०) । यथा च - "वशी जितचित्तः समाधिस्थो योगी"
(तत्रैव नी० क०) । यथा च - "यत्तु वशी विवेकवैराग्यसम्पन्नः" (तत्रैव भाष्यो०) ।
यथा च "वशी यतचित्तः (तत्रैव श्रीधरी) ।
 
-
 
-
 
बसुः – सर्वव्यापकः सूर्यः । यथा - "वासयति सर्वानिति" (का० उ०५/२
शा० भा०) ।
 
वस्त्वाभासः
 
वस्तुन इवाभासः । वस्तुन इव ज्ञानम् = "वस्तु द्रव्यं धर्मि
तद्वत् अवभासत इति वस्त्वाभासम् । यथा - स एव देवदत्तो गौरो दीर्घ इति (मा०
उ० गौ० का० ४।४५ शा० भा० ) ।
 
-
 
-
 
बाकू - १. तदधिष्ठातृदेवताधिष्ठितं वागिन्द्रियम् । यथा - ज्योतिरादिभिरग्न्याद्यभि-
मानिनीभिर्देवताभिरधिष्ठितं वागादिकरणजातम् । अग्नेश्चायं वाग्भावो मुख-
प्रवेशश्च देवतात्मनाऽधिष्ठातृत्वमङ्गीकृत्योच्यते (ब्र० सू० २।४।१४ शा० भा० ) ।
२. ब्रह्म । यथा - स उ एष ब्रह्मणस्पतिर्वाग् वै ब्रह्म (बृ० उ० १ ।३।२१) । शालिनि
र्वाक् वै ब्रह्म (बृ० उ० ४।१।२) । यदि वै प्रजापतेः परमस्ति वागेव (श० प०
ब्रा० ५ । १ ।३।३) । स यो वाचं ब्रह्मेत्युपास्ते (छा० उ० ७।२।२) । चत्वारि वाक्
परिमिता पदानि तानि (ऋ०वे० १/१६४/१०) । ३. स्फोटः । यथा तस्मात् स्फोट
 
-
 
SS