This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
३८७
 
-
 
-
 
वैषग्यम् । न हि स्थूलशरीरं विना सूक्ष्मशरीरमात्रेण भोगः सम्भवति । तदुक्तं पञ्चदश्यां

चित्रदीपे स्थूलदेहं विना लिङ्गदेहो न क्वापि दृश्यते । यथा च तत्र परमेश्वरस्य

पञ्चतन्मात्राद्युत्पत्तौ सप्तदशावयवोपेतलिङ्गशरीरोत्पत्तौ हिरण्यगर्भस्थूलशरीरोत्पत्तौ च

साक्षात्कर्तृत्वम् (वे० प० ७ प० ) । यथा च सूक्ष्मशरीराणि सप्तदशावयवानि

लिङ्गशरीराणि । अवयवास्तु ज्ञानेन्द्रियपञ्चकं बुद्धिमनसी कर्मेन्द्रियपञ्चकं वायुपञ्चकं

चेति (वे० सा० ) । इदं सूक्ष्मशरीरं विज्ञानमयमनोमयप्राणमयकोशत्रययुतं भवति ।

पुनश्च समष्टिव्यष्टिभेदेन सूक्ष्मशरीरं द्विविधम् । यथा - एतौ सूत्रात्मतैजसौ तदानीं

मनोवृत्तिभिः सूक्ष्मविषयाननुभवतः प्रविविक्तमुक्ततैजस इत्यादिश्रुतेः । अत्रापि समष्टि-

व्यष्ट्योस्तदुपहितसूत्रात्मतैजसयोर्वनवृक्षवत्तदवच्छिन्नाकाशवच्च जलाशयजलवत्

तद्गतप्रतिबिम्बाकाशवच्चाभेदः । एवं सूक्ष्मशरीरोत्पत्तिः (वे० सा०) । साङ्ख्ययोगदर्शने

तु अष्टादशावयवैर्युक्तं सूक्ष्मशरीरं लिङ्गशरीरं वोच्यते । यथा - पूर्वोत्पन्नमसक्तं नियतं

महदादिसूक्ष्मपर्यन्तम् । संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् (सा० का० ४०) ।

अष्टादशावयवाः- महद् अहङ्कारः पञ्चज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि मनः पञ्च

तन्मात्राणि ।अद्वैतवेदान्तिमते सप्तदशावयवाः । यथा - बुद्धिकर्मेन्द्रियप्राणपञ्चकैर्मनसा

घिया । शरीरं सप्तदशभिः सूक्ष्मं तल्लिङ्गमुच्यते । (प० द० १ । २३ ) । यथा च-

लिङ्गदेहेन संयुक्तः । नित्यज्ञानादिमत्त्वेऽस्य सृष्टिरेव सदा भवेत् । हिरण्यगर्भ ईशोऽतो

लिङ्गदेहेन संयुतः । उद्गीथब्राह्मणे तस्य माहात्यमतिविस्तृतम् । लिङ्गसत्त्वेऽपि जीवत्वं

नास्य कर्माद्यभावतः । स्थूलदेहं विना लिङ्गदेहो न क्वापि दृश्यते । वैराजो देह ईशोऽतः

सर्वतो मस्तकादिमान् (प० द० १/१११-११३)।
 
-
 
-
 
-
 
-
 

 
लीला - , लीला
यदृच्छा, स्वभावश्च । यथा - "लीलाशब्दस्य क्रीडावाचितायामिदं

दूषणम् । न क्रियामात्रवाचितायामनायाससाध्यक्रियालक्षकतायां वा (ब्र० सू०

२ । १ । ३३ क० त० प०) । जीवभ्रान्त्या परं ब्रह्म जगद्बीजमजूघुषत् । वाचस्पतिः

परेशस्य लीलासूत्रमलूलुपत् । प्रतिबिम्बगताः पश्यन् ऋजुवक्रादिविक्रियाः । एवं

वाचस्पतेर्लीला लीलासूत्रीयसङ्गतिः । अस्वतन्त्रात्मतः क्लिष्टा प्रतिबिम्बेशवादिनाम् (ब्र०

सू० २।१।३३ वे० क० त०) । यथा च - तस्मादुपपन्नं यदृच्छया वा स्वभावाद्

वा लीलया वा जगत्सर्जनं भगवतो महेश्वरस्येति (तत्रैव २।१।३३ भाम०) ।
 
-
 
-
 

 
लोकः- , लोक
प्राणिनां भोगायतनम् । स च अनेकविधः । यथा - लोकशब्दश्च

प्राणिनां भोगायतनेषु भाव्यते - मनुष्यलोकः पितृलोको देवलोकः (बृ० उ०

१/५/१६) । तथा च ब्राह्मणम्- अहोरात्रेषु ते लोकेषु सज्जन्ते इत्यादि (ब्र० सू०
 
-