This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
यथा पर्वतो वह्निमान् धूभादित्यादौ धूमो वह्नेर्लिङ्गम् (प्र० प०) (त० भा० पृ० ९) ।

इदं लिङ्गं द्विविधम् - सल्लिङ्गम् असल्लिङ्गं च । २. सांख्यमते महत्तत्त्वादिकार्यजातं

लिङ्गमुच्यते । अस्मिन्नर्थे. व्युत्पत्तिस्तु लियं लयं गच्छति प्रधान इति लिङ्गम् ।

पृषोदरादित्वात्साधुत्वम् । ३. लक्षणम् । यथा - युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् (गौ०

१।१।१६) । इत्यादौ ज्ञानकारणाणुत्वं मनसो लिङ्गम् (गौ० वृ० १।१।१६) । इत्यादौ ।

४. वैयाकरणास्तु शब्दसाधुताप्रयोजको धर्मः । स च प्राकृतगुणगतावस्थात्मको धर्मः ।

तद्विशेषश्च स्त्रीपुंनपुंसकत्वादि इत्याहुः (शब्दार्थ ० २० ) । तथा हि सर्वेषां

त्रिगुणप्रकृतिकार्यतया शब्दानामपि तथात्वेन गुणगतविशेषाच्छब्देषु लिङ्गविशेषः

इति कल्प्यते । ५. मीमांसकाश्च अर्थप्रकाशनसामर्थ्यं लिङ्गमित्याहुः । सामर्थ्यं द्विविधम् -

शब्दगतं सामर्थ्यम् अर्थगतं सामर्थ्यं च । ६. स्वरूपम् । यथा सप्तदशावयवो लिङ्गदेहः

इत्यादौ सप्तदशसूक्ष्मदेहस्य लिङ्गमित्याहुः । अत्र सूत्रम् - सप्तदशैकं लिङ्गम् (सांख्य सू०

अ० ३ सू० ९) । इति । तदर्थश्च सूक्ष्मशरीर-मप्याधाराधेयभावेन द्विविधं भवति ।

तत्र सप्तदश मिलित्वा लिङ्गशरीरम् । तच्च सर्गादौ समष्टिरूपमेकमेव भवतीत्यर्थः ।

एकादशेन्द्रियाणि पञ्चतन्मात्राणि बुद्धिश्च इति सप्तदश । अहङ्कारस्य बुद्धावेवान्तर्भावः

(सांख्य भा० ३।९) इति । अत्रोक्तं वासनाभूतसूक्ष्मम् (तन्मात्रा) च कर्मविद्ये तथैव

च । दशेन्द्रियं मनो बुद्धिरेतल्लिङ्गं विदुर्बुधाः (वासिष्ठे०) इति । कर्मात्मा पुरुषो योऽसौ

बन्धमोक्षैः प्रयुज्यते । स सप्तदशकेनापि राशिना युज्यते च सः (म० भा० मोक्षधर्मे)

(सांख्य० भा० ३।९) इति । अत्रेदं बोध्यम् । सांख्यमते लिङ्गशरीरस्यैव सुखदुःख-

कार्यकत्वम् । कुतः ? एकस्य लिङ्गदेहस्यैव सुखदुःखाख्यभोगात् । न तु स्थूलशरीरस्य ।

मृतशरीरे सुखदुःखाद्यभावस्य सर्वसंमतत्वात् (सांख्य० भा० अ० ३ सू० ८) । इति ।

(न्यायकोशः) ।
 
-
 
लिङ्गशरीरम् -

 
लिङ्गशरीरम्, लिङ्गशरीर
इदं सूक्ष्मशरीरमप्युच्यते। अस्यार्थः लिङ्ग्यते ज्ञाप्यते

प्रत्यगात्मसद्भाव एभिरिति लिङ्गानि, लिङ्गानि च तानि शरीराणि इति लिङ्गशरीराणि ।

यथा- पूर्वोत्तैरपञ्चीकृतैर्लिङ्गिशरीरं परलोकयात्रानिर्वाहकं मोक्षपर्यन्तं स्थायि

मनोबुद्धिभ्यामुपेतं ज्ञानेन्द्रियपञ्चककर्मेन्द्रियपञ्चकप्राणादिपञ्चकसंयुक्तं जायते ।

तदुक्तम् - पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं

भोगसाधनमिश्रितम् । १ । इति । तच्च द्विविधं परमपरं च । तत्र परं हिरण्यगर्भ-

लिङ्गशरीरम् । अपरमस्मदादिलिङ्गशरीरम् । तत्र हिरण्यगर्भलिङ्गशरीरं महत्तत्वम् ।

अस्मदादिलिङ्गशरीरम् अहङ्कार इत्याख्यायते (वे० प० ७ प०) । अत्रायं विवेकः -

स्थूलशरीरं भोगावच्छेदकम्, सूक्ष्मशरीरन्तु अनुभवविशेषात्मकभोगसाधनमिति