2023-03-12 05:01:46 by ambuda-bot
This page has not been fully proofread.
शावेदान्तकोशः
३८५
सन्निकर्षविप्रकर्षप्रदर्शनभाष्यब्याख्यानावसरे मुख्यार्थसादृश्यं लक्षयित्वा तद्द्वारेण
तद्वत्यर्थान्तरे वृत्तिर्गौणीति लक्षितलक्षणारूपा सा टीकाकारैराचार्यैश्च वक्ष्यते (तत्रैव
क० त० ५० ) । यथा च - सत्यमेवमेतत् । लक्षणायामपि तु सन्निकर्षविप्रकर्षौ भवत
एव । अध्यासपक्षे ह्यर्थान्तरबुद्धिरर्थान्तरे निक्षिप्यत इति विप्रकृष्टा लक्षणा, विशेषण-
पक्षे त्ववयविवचनेन शब्देनावयवः समर्प्यत इति सन्निकृष्टा । समुदायेषु हि प्रवृत्ताः
शब्दाः अवयवेष्वपि प्रवर्तमाना दृष्टाः पटग्रामादिषु (ब्र० सू० ३।३।९ शा० भा०) ।
(क) न्यायमते स्वशक्यसम्बन्धः (भा०प० श्लो० ८३) (त० दी० ख० ४) (न्या०
बो० ४) (न्या० म० ४ पू० १०) (वाक्य०) । तदर्थस्तु स्वं लाक्षणिकं पदं गङ्गापदम् ।
तस्य शक्यः प्रवाहः । तत्सम्बन्धः संयोगः इति (त० प्र० ४ पृ० ३५) । (ख) प्राञ्चस्तु
शक्यादशक्योपस्थितिर्लक्षणा इत्याहुः । (ग) अन्ये तु अशक्ये तात्पर्यविषयत्वं लक्षणा
इत्याहुः (न्या० म० ४ पृ० १०) (त० प्र० ४ पृ० ३५) । (घ) मीमांसकास्तु
प्रतिपाद्यसम्बन्धो लक्षणा । यथा छत्रिणो यान्तीत्यादावज्हल्लक्षणा । अत्र छत्रिन् इत्यस्य
मतुबर्थकेन्प्रत्ययान्ततया पदसमूहरूपत्वेन तच्छक्त्या प्रसिद्ध्या शक्यसम्बन्धरूपलक्षणया
न सम्भवति (न्यायकोशः) ।
-
-
लक्ष्यत्रैविध्यम् – त्रिविधानि लक्ष्याणि यथा - "स्वरूपविशेषणोपलक्षणभेदास्त्रिविधम्"
(सं० शा० १ ।५१४ सु० टी० ) । यथा च - "इहलोके व्यवहारभूमौ स्वलक्षणमनुष्यस्वरूपस्य
. विशेषं विशेषणमुपलक्षणं कदाचित्कथञ्चित् सङ्गतिमात्रेण लक्षणमिति लक्ष्यस्य लक्षणमिति
त्रिविधं प्रसिद्धमिति सम्बन्धः (तत्रैव १/५१५ अ० टी०) । यथा च - तत्र लक्षणाविषयो
लक्ष्यः । लक्षणा च द्विविधा केवललक्षणा लक्षितलक्षणा चेति । शक्यसाक्षात्सम्बन्धः
केवललक्षणा । यथा गङ्गायां घोष इति अत्र प्रवाहसाक्षात्सम्बन्धिनि तीरे गङ्गापदस्य
केवललक्षणा । यत्र शक्यपरम्परासम्बन्धेनार्थान्तरप्रतीतिस्तत्र लक्षितलक्षणा । यथा
द्विरेफपदस्य रेफद्वये शक्तस्य भ्रमरपदघटितपरम्परासम्बन्धेन मधुकरे वृत्तिः । गौण्यपि
लक्षितलक्षणैव । यथा सिंहो माणवक इति । अत्र सिंहशब्दवाच्यसम्बन्धिक्रौर्यादि-
सम्बन्धेन माणवकस्य प्रतीतिः (वे० प० ४ प्र० ) ।
-
लिङ्गम् – १ .त्रिविधशरीरेष्वन्यतमं लिङ्गशरीरम् । यथा - लिङ्ग्यतेऽनेन चैतन्यमिति
लिङ्गं शरीरं तच्च नास्तीत्यतः स्वातन्त्र्यात्सर्वकारणम् (सं० शा० ३।१८१ सु० टी०) ।
यथा च - "लिङ्ग्यतेऽनेनेति लिङ्गं कार्यकारणसङ्घातस्तदस्य नास्ति" (सं० शा०
३/१८५ अ० टी० ) । २. हेतुः यथा - "लिङ्गानि तूपक्रमोपसंहाराभ्यासापूर्वताफलार्थवादो-
पपत्त्याख्यानि (वे० सा०) (हेतुः) । (क) व्याप्तिबलेन यद्यस्य गमकमं तत् तस्य लिङ्गम् ।