This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
योरेवाभेदान्वयाऽविरोधात् । यथा घटोऽनित्य इत्यत्र घटपदवाच्यैकदेशघटत्वस्यायोग्यत्वेऽपि
योग्यघटव्यक्त्या सहानित्यत्वान्वयः । यत्र पदार्थैकदेशस्य विशेषणतयोपस्थितिः, तत्रैव
स्वात्रन्त्र्येणोपस्थितये लक्षणाऽभ्युपगमः । यथा घटो नित्य इत्यत्र घटपदात् घटत्वस्य
शक्त्या स्वातन्त्र्येणानुपस्थित्या तादृशोपस्थित्यर्थं घटपदस्य घटत्वे लक्षणा । एवमेव
तत्त्वमसीत्यादिवाक्येऽपि न लक्षणा शक्त्या स्वातन्त्र्येणोपस्थितयोस्तत्त्वम्पदार्थयोर-
भेदान्वये बाधकाभावात् । अन्यथा गेहे घटो, घटे रूपं घटमानयेत्यादौ घटत्वगेहत्वा-
देरभिमतान्वयबोधायोग्यतया तत्रापि घटादिपदानां विशेष्यमात्रपरत्वं लक्षणयैव स्यात् ।
तस्मात्तत्त्वमसीत्यादिवाक्येषु आचार्याणां लक्षणोक्तिरभ्युपगमवादेन बोध्या ।
जहदजहल्लक्षणोदाहरणं तु काकेभ्यो दधि रक्ष्यतामित्याद्येव । तत्र शक्यकाकपरित्या-
गेनाशक्यदध्युपघातकत्वपुरस्कारेण काकेऽकाकेऽपि काकशब्दस्य प्रवृत्तेः । लक्षणावीजं
तु तात्पर्य्यानुपपत्तिरेव न त्वन्वयानुपपत्तिः, काकेभ्यो दधि रक्ष्यतामित्यत्रान्वयानु-
पपत्तेरभावात् । गङ्गायां घोष इत्यादौ तात्पर्यानुपपत्तेरपि सम्भवात् । लक्षणा च न
पदमात्रवृत्तिः, किन्तु वाक्यवृत्तिरपि । यथा गम्भीरायां नद्यां घोष इत्यत्र गम्भीरायां
नद्यामिति पदद्वयसमुदायस्य तीरे लक्षणा । ननु वाक्यार्थस्याशक्यतया कथं शक्य-
सम्बन्धरूपा लक्षणा ? उच्यते । शक्त्या यत्पदसम्बन्धेन ज्ञाप्यते तत्सम्बन्धो लक्षणा,
शक्तिज्ञाप्यश्च यथा पदार्थस्तथा वाक्यार्थोऽपीति न काचिदनुपपत्तिः । एवमर्थवाद-
वाक्यानां प्रशंसारूपाणां प्राशस्त्ये लक्षणा । सोऽरोदीदित्यादिनिन्दार्थवाक्यानां निन्दितत्त्वे
लक्षणा । अर्थवादगतपदानां प्राशस्त्यादिलक्षणाऽभ्युपगमे एकेन पदेन लक्षणया
तदुपस्थितिसम्भवे पदान्तरवैयर्थ्यं स्यात् । एवञ्च विध्यपेक्षितप्राशस्त्यरूपपदार्थ-
प्रत्यायकतया अर्थवादपदसमुदायस्य पदस्थानीयतया विधिवाक्येन एकवाक्यत्वं
भवतीत्यर्थवादानां पदैकवाक्यता (वे० प० ४ १०) । यथा च - अपि च गौण्या
वृत्तेर्लक्षणावृत्तिर्गरीयसी, लाघवात् । लक्षणया हि लक्षणीयपरत्वं पदस्य तस्यैव
वाक्यार्थान्तर्भावात् । यथा गङ्गायां घोष इति लक्ष्यमाणस्य तीरस्य वाक्यार्थेऽन्त-
र्भावोऽधिकरणतया । गौर्वाहीक इत्यत्र तु गोसम्बन्धितिष्ठन्मूत्रपुरीषादिकारिलक्षणया
न तत्परत्वं गोशब्दस्य । अपि तु तत्कक्षाध्यवसिततद्गुणयुक्तवाहीकपरत्वमिति गौण्या
वृत्तेर्दुर्बलत्वं तदिदमुक्तं लक्षणायामपि त्विति । गौण्यपि वृत्तिर्लक्षणावयवत्वाल्लक्षणोक्ता
(ब्र० सू० ३।३।९ भाम० ) । यथा च - वाच्यमर्थं विहाय यद् वस्तु लक्ष्यते
तन्मात्रपरत्वलक्षणायाम् इत्यव्यवधानमुक्त्वा गौण्या लक्षणीयार्थद्वाराऽर्थान्तरे शब्दस्य
वृत्तेर्व्यवधानमाह- गौर्वाहीक इति (तत्रैव वे० क०) । यथा च - इह लक्षणागौण्योः
 
३८४