This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
तच्च द्विविधम् विशेषणम् उपलक्षणं च । तत्रोपलक्षणं यथा जटाभिस्तापस

इत्यादौ तापसादेः कालान्तरीणजटादिकं लक्षणम् (ग० व्यु० का० ३ पृ० ९१ )

(न्यायकोशः) । अयं च "इत्थम्भूतलक्षणे" (पा० सू० २।३।२१) । इति पाणिनि-

सूत्रघटकलक्षणशब्दस्यार्थः । विशेषणं तु पताकावद् देवदत्तगृहमित्यादौ पताका ।

तथा हि सजातीयविजातीयव्यावकतया लक्ष्यावधारणं लक्षणस्य प्रयोजनम्

(न्यायकोशः) ।
 
३८३
 
लक्षणा-

 
लक्षणा, लक्षणा
पदानामर्थेषु वृत्तिः शक्तिर्वा लक्षणा । सा च न केवलं शक्यसाक्षात्-

सम्बन्धरूपा बोध्यपम्परासम्बन्धरूपा अपि लक्षणा । अद्वैतमते शक्यसम्बन्धरूपा एव

लक्षणा न स्वीक्रियते । सा च पदे तथा वाक्येऽपि । यदि पदमात्रे एव लक्षणास्यात्तर्हि

वायुर्वै क्षेपिष्टा देवतेत्यादि वाक्यानामानर्थक्यापत्तिः । उक्तं च - मानान्तरविरोधे तु

मुख्यार्थस्यापरिग्रहे। मुख्यार्थेनाविनाभूते प्रवृतिर्लक्षणोच्यते । अतो लक्षणा पदवृत्तिः

वाक्यवृत्तिरपि । तेन गभीरायां नद्यां घोषः इत्यत्र पदद्वयसमुदायस्य तीरे लक्षणा । यत्र

बोध्यसाक्षात्सम्बन्धेन अन्यार्थप्रतीतिस्तत्र केवला लक्षणा । यत्र बोध्यपरम्परासम्बन्धेनान्यार्थ-

प्रतीतिस्तत्र लक्षितलक्षणा । यथा - "अथ लक्ष्यपदार्थो निरूप्यते । तत्र लक्षणाविषयो

लक्ष्यः । लक्षणा च द्विविधा, केवललक्षणा लक्षितलक्षणा चेति । तत्र शक्यसाक्षात्सम्बन्धः

केवललक्षणा, यथा - 'गङ्गायां घोष' इति अत्र प्रवाह-साक्षात्सम्बन्धिनि तीरे गङ्गापदस्य

केवललक्षणा । यत्र शक्यपरम्परासम्बन्धेनार्थान्तर-प्रतीतिस्तत्र लक्षितलक्षणा । यथा

द्विरेफंपदस्य रेफद्वये शक्तस्य भ्रमरपद-घटित-परम्परा-सम्बन्धेन मधुकरे वृत्तिः । गौण्यपि

लक्षितलक्षणैव । यथा- सिंहो माणवक इति अत्र सिंह-शब्द-वाच्य-सम्बन्धि-क्रौर्य्यादि-

सम्बन्धेन माणवकस्य प्रतीतिः । प्रकारान्तरेण लक्षणा त्रिविधा- जहल्लक्षणा,

अजहल्लक्षणा, जहदजहल्लक्षणा चेति । तत्र शक्यार्थमनन्तर्भाव्यैव यत्रार्थान्तरप्रतीतिस्तत्र

जहल्लक्षणा, यथा विषं भुङ्क्ष्वेति । अत्र स्वार्थं विहाय शत्रुगृहे भोजननिवृत्तिर्लक्ष्यते ।

यत्र शक्यार्थमन्तर्भाव्यैवार्थान्तरप्रतीतिस्तत्राजहल्लक्षणा, यथा शुक्लो घट इति । अत्र

हि शुक्लशब्दः स्वार्थं शुक्लगुणमन्तर्भाव्यैव तद्वति द्रव्ये लक्षणया वर्तते । यत्र हि

विशिष्टवाचकः शब्दः एकदेशं विहाय एकदेशे वर्तते तत्र जहदजहल्लक्षणा, यथा

सोऽयं देवदत्त इति । अत्र हि पदद्वयवाच्ययोर्विशिष्टयोरैक्यानुपपत्त्या पदद्वयस्य

विशेष्यमात्रपरत्वम् । यथा वा तत्त्वमसीत्यादौ तत्पदवाच्यस्य सर्वज्ञत्वादिविशिष्टस्य

त्वंपदवाच्येनान्तःकरणविशिष्टेनैक्यायोगादैक्यसिद्ध्यर्थं स्वरूपे लक्षणेति साम्प्रदायिकाः ।

वयन्तु ब्रूमः- सोऽयं देवदत्तः, तत्त्वमसीत्यादौ विशिष्टवाचकपदानामेकदेशपरत्वेऽपि

न लक्षणा, शक्त्युपस्थितयोर्विशिष्टयोरभेदान्वयानुपपत्तौ विशेष्ययोः शक्त्युपस्थित-
-