2023-03-12 05:01:45 by ambuda-bot
This page has not been fully proofread.
३८२
.
शाङ्कुरवेदान्तकोशः
जगदध्यासाधिष्ठानत्वं
जगदाकारेण विपरिणममानमायाऽधिष्ठानत्वं वा । एतादृश-
मेवोपादानत्वमभिप्रेत्य 'इदं सर्वं यदयमात्मा' 'सच्च त्यच्चाभवत्' (तै० २।६) । 'बहु
स्यां प्रजायेय' (तै० २।६) । इत्यादिश्रुतिषु ब्रह्मप्रपञ्चयोस्तादात्म्यव्यपदेशः । घटः
सन् घटो भाति, घट इष्ट इत्यादिलौकिकव्यपदेशोऽपि सच्चिदानन्दरूपब्रह्मैक्याध्यासात् ।
नन्वानन्दात्मकं चिदध्यासात् घटादेरिष्टत्वव्यवहारे दुःखस्यापि तत्राध्यासात्तत्रापि
इष्टत्वव्यवहारापत्तिरिति चेत्, न । आरोपे सति निमित्तानुसरणं, न तु निमित्तमस्ती-
त्यारोप इत्यभ्युपगमेन दुःखादौ सच्चिदंशाध्यासेऽप्यानन्दांशाध्यासाभावात् । जगति
नामरूपांशद्वयव्यवहारस्तु
अविद्यापरिणामात्मकनामरूपसम्बन्धात् ।
तदुक्तम्-
अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ।
●
इति (वे० प० ७ प०) । १ (क) उद्दिष्टस्यातत्त्वव्यवच्छेदको धर्मः (वात्स्या०
१।१ । ३) । यथा इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानं..... प्रत्यक्षम् (वात्स्या० १।१४) इति
प्रत्यक्षलक्षणम् । त्रिविधा शास्त्रस्य प्रवृत्तिः उद्देशो लक्षणं परीक्षा चेति । तत्र उद्देशानन्तरं
लक्षणम् । ततः परीक्षा । लक्षणस्य प्रयोजनं च सर्वं हि लक्षणमितरपदार्थव्यवच्छेदकम्
(न्या० वा० १/१/१४ पृ० ८२) । पदार्थतत्त्वज्ञानं लक्षणस्य प्रयोजनम् इति
तर्कभाषायामुक्तम् (त० भा० पृ० १) । व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनमिति
दीपिकायाम् (त० दी० पृ० ५) (सि० च०) । वेदान्तिनस्तु यो धर्मो लक्ष्ये व्याप्त्या
वर्तते न वर्तते चान्यत्र स धर्मः । यथा गोः सास्नादिमत्त्वम् । तद्धि गोषु सर्वत्रास्ति
नास्ति चागोषु इत्याहुः (प्र० प० पृ० १) । सजातीयविजातीयव्यावर्तको लक्ष्यगतः
कश्चिल्लोकप्रसिद्धः आकारो लक्षणम् (जै० व्या० अ० १ पा० १ अधि० १ ) ।
इदं लक्षणं द्विविधम् स्वरूपलक्षणं तटस्थलक्षणञ्च इति । तदुक्तं स्वरूपं तटस्थं द्विविधं
लक्षणं स्यात् स्वरूपे प्रविष्टं स्वरूपाद्विभिन्नमिति । तत्र स्वरूपलक्षणं यथा आकाशो
बिलमिति । यथा - वेदान्तमते सच्चिदानन्दो ब्रह्म इति स्वरूपलक्षणम् । यथा मीमांसकमते
चोदनालक्षणोऽर्थो धर्मः इत्यादौ चोदनावाच्यविधिवाक्यमेव धर्मस्वरूपज्ञापकमस्ति
इति । तटस्थलक्षणं तु काकवत् देवदत्तगृहमिति । अत्रोदासीनोऽपि काक इदं
देवदत्तगृहमिति बोधयति । यथा वा पृथिव्या गन्धो लक्षणम् । स हि तटस्थलक्षणमपि
पृथिवीं परस्माद्भिन्नतयानुमापयति । तथा हि पृथिवी जलादिभ्यो भिद्यते गन्धवत्त्वात्
यन्नैवं तन्नैवं यथा जलमिति । मायावादिमते तु जगज्जन्मादिकारणं ब्रह्म इति तटस्थ-
लक्षणम् । लक्षणेन च पदार्थज्ञानं सुकरं भवति । तदुक्तम् ऋषयोऽपि पदार्थानां नान्तं
यान्ति पृथक्त्वतः । लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः । इति । व्यावर्तकम् ।
-