2023-03-12 05:01:45 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
रूपकम् – १ . मूर्तम् । २.शुक्लादिवर्णविशेषः । ३. आकारः ।४. साहित्यशास्त्रज्ञास्तु
अभिनयप्रदर्शको दृश्यकाव्यविशेषः । ५. आलङ्कारिकास्तु अर्थालङ्कारविशेषः इत्याहुः ।
तल्लक्षणं तु रूपकं रूपितारोपाद्विषये निरपहये (सा० द० परि० १० । ६६९) इति ।
६. गणकास्तु गुञ्जात्रयपरिणाम इत्याहुः । अत्रोच्यते- सञ्चाली प्रोच्यते गुञ्जा
तास्तिस्रो रूपकं भवेत् (युक्ति क०) इति । ७. राजतो नाणकविशेष इत्याधुनिका
व्यवहरन्ति (न्यायकोशः) ।
-
-
३८१
रूपस्कन्थः- सर्वेन्द्रियाणि । बौद्धाभिमतेषु पञ्चविधेषु रूपविज्ञानवेदना-
संज्ञास्कन्धेषु अन्यतमः । यथा - "रूप्यन्ते एभिरिति रूप्यन्त इति च व्युत्पत्या
सविषयाणि इन्द्रियाणि रूपस्कन्धः । यद्यपि रूप्यमाणाः पृथिव्यादयो बाह्याः, तथापि
कायस्थत्वावा इन्द्रियसम्बन्धाद्वा भवन्याध्यात्मिका:" (ब्र० सू० २/२/१८
भाम० ) ।
-
-
लक्षणम् – तत्र लक्षणं द्विविधम् - स्वरूपलक्षणं तटस्थलक्षणं चेति । तत्र स्वरूपमेव
लक्षणं स्वरूपलक्षणम्, यथा सत्यादिकं ब्रह्मस्वरूपलक्षणम् । सत्यं ज्ञानमनन्तं ब्रह्म (तै०
२- १ - १ )। "आनन्दो ब्रह्मेति व्यजानात्" (तै० ३।६) इति श्रुतेः । ननु स्वस्य
स्ववृत्तित्त्वाभावे कथं लक्षणत्वमिति चेत्, न । स्वस्यैव स्वापेक्षया धर्मिधर्मभावकल्पनया
लक्ष्यलक्षणत्वसम्भवात् । तदुक्तम् - आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्माः,
अपृथक्त्वेऽपि चैतन्यात्पृथगिवावभासन्त इति । तटस्थलक्षणं तु यावल्लक्ष्यकालमनव-
स्थितत्त्वे सति यद्व्यावर्तकं तदेव यथा गन्धवत्त्वं पृथिवीलक्षणम् । महाप्रलये परमाणुषु
उत्पत्तिकाले घटादिषु गन्धाभावात् । प्रकृते ब्रह्मणि च जगज्जन्मादिकारणत्वम् । अत्र
जगत्पदेन कार्यजातं विवक्षितम् कारणत्वं च कर्तृत्वमतोऽविद्यादौ नातिव्याप्तिः ।
कर्तृत्वं च तत्तदुपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वम् । ईश्वरस्य तावदुपादान-
गीचरापरोक्षज्ञानसद्भावे च 'यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतद् ब्रह्म
नामरूपमन्नं च जायते (मु० १ । १ ।९) । तादृशचिकीर्षासद्भावे 'सोऽकामयत बहु
स्यां प्रज़ायेयम् (तै०२।६) । इत्यादिश्रुतिर्मानम् । तादृशकृतौ च तन्मनोऽकुरूत' इत्यादि
वाक्यम् । ज्ञानेच्छाकृतीनां मध्येऽन्यतमगर्भलक्षणत्रितयमिदं विवक्षितम् । अन्यथा व्यर्थ -
विशेषणत्वापत्तेः । अत एव जन्म-स्थिति-ध्वंसानामन्यतमस्यैव लक्षणे प्रवेशः । एवञ्च
प्रकृते लक्षणानि नव सम्पद्यन्ते । ब्रह्मणो जगज्जन्मादिकारणत्वे च - "यतो वा इमानि
भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति' (तै० ३।१ ) ।
इत्यादिश्रुतिर्मानम् । यद्वा - निखिलजगदुपादानत्वं ब्रह्मणो लक्षणम् । उपादानत्वं च