This page has not been fully proofread.

३८०
 
शाङ्करवेदान्तकोशः
 
-
 
विशेषः इति काव्यज्ञा आहुः । ३. गायकास्तु निषादादिस्वरयोनिकः स्वरविशेषः । यथा -
मालवभैरवादी राग इत्याहुः । तत्स्वरूपं च - यैस्तु चेतांसि रज्यन्ते जगत्त्रतयवर्तिनाम् ।
ते रागा इति कथ्यन्ते मुनिभिर्भरतादिभिः इति (वाच०) तेषां मतभेदेन भेदा यथा
आदौ मालवरागेन्द्रस्ततो मल्लारसंज्ञितः । श्रीरागश्च ततः पश्चाद्वसन्तस्तदनन्तरम् ।
हिन्दोक्तश्चाथ कर्णाट एते रागाः षडेव तु ( संगीत दामो०) इति । भरतमते तु-
भैरवः कौशिकश्चैव हिन्दोलोदीपकस्तथा । श्रीरागो मेघरागश्च रागा षडिति कीर्तिताः ।
( वाच०) इति । अत्र एकैकरागे रागिण्यः स्त्रियः षट् । रागिण्यो गीत्यङ्गानि (संगीत-
दा०) । एवं षट्सु रागेषु रागिणीभेदाश्च षट्त्रिंशद्रागिणीभेदाः क्रमशः कथिता मया ।
धानसी १. मालसी । २. चैव रामकीरी । ३. च सिम्बुडा । ४. आशपारी । ५. भैरवी ।
६. च मालवस्य प्रिया इमाः । वेलावली १ पुरवी २ च कानडा ३. माधवी ४ तथा ।
चैव
कोज ५. केदारिका ६. चापि मल्लारदयिता इमाः ॥ गान्धारी १. सुभगा २.
गौरी । ३. कौमारिका ४ तथा । वेलोयारी ५. च वैरागी । ६. श्रीरागस्य प्रिया
इमाः ॥ तुडी १ च पञ्चमी २. चैव ललिता ३. पठमञ्जरी । ४. गुर्जरी ५. च
विभाषा ६. च वसन्तस्य प्रिया इमाः । मायूरी १ दीपिका २ चैव देशकारी ३ च
पाहिड़ी ४. वराडी ५ सोरहाटी ६ च हिन्दोलस्य प्रिया इमाः । नाटिका १ चाथ
भूपाली २ रामकेली ३. गडा ४. तथा । कामोदा ५. चाथ कल्याणी ६. कर्णाटस्य
प्रिया इमाः (संगीतदा०) इति । एवं तत्तद्गानकालभेदाः तत्तत्पुत्रादयश्च तत्रैव दृश्याः
(वाच०) (न्यायकोश:) विषयेष्वासक्ती रागः इति पातञ्जला: (पा० यो० २ । ३ ) ।
 

 
-
 
रायः – कर्मफलभोगः धनं च । यथा - "राये धनाय कर्मफलभोगायेत्यर्थ:"
(ई० उ० १८ शा० भा०) ।
 
-
 
रूपम् - सर्वाधिष्ठानकं येन सर्वं रूप्यते तद् ब्रह्म । यथा - "जगतो वास्तवं
रूपमित्यर्थः । रूप्यते ह्यनेन सर्वं जगदिति सर्वाधिष्ठानत्वात् साक्षितया सर्वसाध
कत्वाच्च, तदभावे हि निःस्वरूपमसाक्षिकं सन्न किञ्चित्सिध्येदित्यवश्याभ्युपेयं
तदिति भावः (सं० शा० सु० टी० श्लो० १) ।
 
रुत् – वेदान्तवाक्यम् । यथा- रौति यथार्थं शब्दयति इति तद् वेदान्तवाक्यम्
(ब्र० सू० १/१/३१ वे० क०) ।
 
रून्मुखाः – वेदान्तिनः । यथा - रुद् वेदान्तवाक्यं तत्र मुखं येषां ते (ब्र०
 
-
 
-
 
सू० १/१/३१ वे० क० ) ।