This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
परमात्मैव चोपाधिकल्पितावच्छेदको जीव इत्याख्यायते, तस्य च देहेन्द्रियादेरुपाधेः

प्रादेशिकत्वान्न तत्र सन् देहान्तरं गन्तुमर्हति । तस्मात् सूक्ष्मदेहपरिष्वक्तो रंहति-

कर्मोपस्थापितः प्रतिपक्तव्यः । प्राप्तव्यो यो देहस्तद्विषयाया भावनाया उत्पादनाया

दीर्घीभावमात्रं जलूकयोपमीयते (तत्रैव भाम० ) । ननूदाहृताभ्यां प्रश्नप्रति-

वचनाभ्यां केवलाभिरद्भिः सम्परिष्वक्तो रंहति प्राप्नोति अपशब्दश्रवणसामर्थ्यात् ।

तत्कथं सामान्येन प्रतिज्ञायते सर्वैरेव भूतसूक्ष्मैः सम्परिष्वक्तो रंहति इति । अत उत्तरं

पठति (ब्र० सू० ३/१19 शा० भा० ) । यथा च "त्र्यात्मकत्वात् भूयस्त्वात्

( ब्र० सू० ३।१।२) ।
 
३७९
 
-
 

 
रागः, राग
रतिः अभिलाषः । यथा - "इहामुत्रफलभोगविरागः। ....विषय-

भोगानामनित्यतया तेभ्यो नितरां विरतिरिहामुत्रार्थफलभोगविरागः (वे० सा०) । यथा

च - "इहामुत्रफलभोगविरागस्य.... (वे० प० ८ प०) । (क) रागः । (ख) तृष्णा ।

(ग) अभिलाषः । (घ) अन्तःकरणगत उपरागः । यथा - रसशब्दो रागे प्रसिद्धः ।

स्वरसेन प्रवृत्तो रसिको रसज्ञ इत्यादिदर्शनात् । सोऽपि रसो रञ्जनरूपः सूक्ष्मोऽस्य

यतेः परं परमार्थतत्त्वं ब्रह्मदृष्ट्वोपलभ्याहमेव तदिति वर्त्तमानस्य निवर्त्तते (गी० २।५९

शा० भा० ) । यथा च - "यो हि विषयप्रवणो न भवति तस्यात्यन्तिके तपसि क्लेशात्मके

व्यवस्थितस्य विद्याहीनमनआदीन्द्रियाणि विषयेभ्यः सकाशाद्यद्यपि संह्रियन्ते, तथाऽपि

रागोऽवशिष्यते, स च तत्त्वज्ञानादुच्छिद्यत इत्यर्थः । रसशब्दस्य माधुर्यादिषड्रसविषयत्वं

निषेधति । .....रसिकः स्वेच्छावशवर्ती रसज्ञो विवक्षितापेक्षितज्ञातेत्यर्थः" (गी० २।५९

आ० गि०) । तथा च – "तथापि रसवर्जं रसो रागस्तवर्जं निवर्तन्ते (तत्रैव नी०

क० ) । यथा च - "रसवर्जं रसस्तृष्णा तं वर्जयित्वा (तत्रैव म० सू०) । यथा च -

"किन्तु रसो रागोऽभिलाषस्तवर्जम् (तत्रैव श्रीधरी) । यथा च - "यद्यप्याहार्यैः

रूपादिभिर्विषयैः सम्बन्धोऽस्य नास्ति तथापि तस्य विषया अन्तःकरणगतमुपरागलक्षणं

रसं वर्जयित्वा निवर्तन्ते । अतः नासौ स्थितप्रज्ञः । रसं केचिदास्वाद्यं मधुरादिकमाहुः ।

योगिनस्तु परमेश्वरदर्शनादुपरागो भवति । अन्यस्य तु तपस्विनो नासौ निवर्तते (तत्रैव

अभि० गुप्तः) इत्यद्वैतवेदान्तिनः । १. दोषः (क) आसक्तिलक्षणो दोषः । यथा तृष्णा

(वात्स्या० ४।१।३) । (ख) पुनः पुनर्विषयानुरञ्जनेच्छा (प्रशस्त० २ पृ० ३३) ।

रागलक्षणं चोज्ज्वलमणिनोक्तम् । सुखमप्यधिकं चित्ते सुखत्वेनैव रज्यते । यतस्तु

प्रणयोत्कर्षात्स राग इति कथ्यत इति (वाच०) । (ग) सुखाभिज्ञस्य सुखानुस्मृतिपूर्वकः

सुखसाधनेषु तृष्णारूपो गर्धो रागः (सर्व० सं० पृ० ३६२ पात०) ।२. महारञ्जनादिवर्ण-
-
 
-