This page has been fully proofread once and needs a second look.

पृ० ३२६ सां०) । (ख) जातसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् (याज्ञ० अ० १ ।
३६२) (न्यायकोशः) ।
 
रतिः, रति
इष्टार्थसंयोगजन्या क्रीडा । यथा - "रतिर्नाम इष्टार्थसंयोगजा क्रीडा ।
तत्प्रसङ्गिनंःइष्टवियोगान्मनस्याकुलीभावो अरतिरित्युच्यते (बृ०३०९।४।३ शा० भा० ) ।
 
रम्, रम्
प्राणः । यथां – '"प्राणो वै रम् (बृ० उ० ५।१२।१) । किं पुनस्तद्
रं प्राणो वै रम्, कुत इत्याह- प्राणे हि यस्माद् बलाश्रये सति सर्वाणि भूतानि
रमन्तेऽतो रं प्राणः । सर्वभूताश्रयगुणमन्नं सर्वभूतरतिगुणञ्च प्राणः (तत्रैव शा० भा०) ।
 
रसः, रस
१. (क) हिरण्यगर्भो विज्ञानात्मा वायोरन्तरिक्षस्य च प्रेरकः । अतस्तस्यैकं
नाम रस इति । अत एव हिरण्यगर्भो वायोरन्तरिक्षस्य च कारणमप्युच्यते । यथा -
रसः कारणं हि हिरण्यगर्भो विज्ञानात्मा चेतन इति केचित् (बृ० उ० २ । ३ । ३शा०
भा०) । (ख) ब्रह्म । यथा - "रसो वै सः" "रस ह्येवायं लब्ध्वानन्दी भवति" (तै०
उ० २।७) । १. (गुणः) (क) रसनग्रहणो योऽर्थः सः (वै० उ० ३।१।१ प्रशस्त
पृ० १२) अत्र अर्थशब्देन धर्मीभावभूत उच्यते । तेन रसत्वादौ रसाद्यभावे च
नातिव्याप्तिः । स च बाह्यैकेन्द्रियग्राह्यः (वै० उ० ३।१।१ ) । रसनसहकारी च (प्रशस्त ०.
पृ० १२) । लक्षणं तु रसत्वमेव । तच्च रसनग्राह्यगुणविभाजकधर्मवत्त्वम् (वाक्य०
१ पृ० ७) (वै० उ० ७/१।६) । अत्र व्युत्पत्तिः रस्यते आस्वाद्यत इति रसः (कर्मणि
प्रत्ययः) । (ख) रसनमात्रग्राह्यजातिमान् (त० कौ० १ पृ० ४) । अत्र रसनग्राह्यां
रसादिगतां सत्तां जातिमादाय द्रव्यादावतिव्याप्तिवारणाय मात्र इति पदं दत्तम् । (ग)
रसवृत्ति-गुणत्वसाक्षाद्व्याप्यजातिमान् (वै० उ० ७/१।६) । सा च जातिः रसत्वम् ।
रसः षड्विधः मधुरः अम्लः, लवणः, कटुः, कषायः, तिक्तश्च इति ।२. आलङ्कारिकास्तु
विभावानुभावसञ्चारिव्यङ्ग्यो रत्यादिस्थायिभावकः शृङ्गारादिर्नवविधः रस इत्याहुः ।
वात्सल्याख्यं दशममपि रसं मुनीन्द्रादयोऽङ्गीचक्रुः (सा० द० परि० ३ श्लो० २४१
पृ० ६५) । ३. ब्रह्मण आनन्द: ज्ञानं वा रसः । यथा - रसो वै सः रस ह्येवायं
लब्ध्वानन्दी भवति (तैति० उ० २।७) इत्यादाविति वेदान्तिन आहुः । अत्रालङ्कारिका
आहुः । सत्त्वोद्रेकादखण्डस्वप्रकाशानन्दचिन्मयः । वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वादसहोदरः ।
(ता० द० परि० ३ श्लो० ३३ पृ० १६) (न्यायकोशः) ।
 
 
रंहतिः, रंहति
व्रजतिः । यथा- "रंहतिः = प्राप्नोति (ब्र० सू० ३।१।१ ) ।
तस्मादद्भिः परिवेष्टितो जीवो रंहति व्रजतीति गम्यते (तत्रैव शा० भा०) । यथा च -