This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
३७७
 
परामर्शोत्पत्तिः अनुमित्सोत्पत्तिक्षणमारम्भ तत्क्षणपर्यन्तं यावन्तः क्षणाः यो वा
तावन्मात्रक्षणावस्थायी स्थूलकालस्तत्समूह एव वेत्यर्थः । एवञ्च क्षणचतुष्टयं
तदधिककालायोग्यानुपलब्धि: ( अनुपलब्धिः) । (क) प्रतियोगितद्व्याप्येतर-
प्रतियोग्युपलम्भकयावत्सामग्रीविशिष्टप्रतियोग्युपलम्भाभावः (कु० ३ टी०) । (ख)
अभावप्रत्यक्षसामग्रीविशिष्टप्रतियोग्यनुपलब्धिः (त० प्र० १ ) । अत्र अनुपलब्धौ
योग्यत्वविशेषणदानेन अन्धकारे न घटाभावप्रत्यक्षापत्तिः । तथा हि आलोक-
संयोगाद्यसत्त्वदशायामत्र घटः स्यात् तर्छुपलभ्येत इत्यापादनासम्भवेन योग्यानुप-
लब्ध्यभावात् न तत्र घटाभावप्रत्यक्षम् (नील० पृ० १८) । इति । अत्र भट्टा आहुः-
अभावप्रत्यक्षे चेन्द्रियं न करणं किन्तु योग्यानुपलब्धिरेव (दि० १) । इति । अत्रेदं
बोध्यम् – यस्य सत्त्वं यत्रानुपलब्धिविरोधि तस्याभावस्तत्र गृह्यते (चि० ४) । इति
शिष्टमुदाहरणप्रयोजनादिकं च अनुपलब्धिशब्दव्याख्यानावसरे योग्यताशब्द-
व्याख्यानोपस्थाने च सम्पादितम् । तत्तत्र दृश्यम् । नच स्थायी स्थूलसमयश्च योग्यता
इति पर्यवसितम् (ग० २ पक्ष० पृ० २८) । ५. साधकबाधकमानाभावः (चि० २
पक्ष० पृ० ३३) । इयं योग्यता त्वनुमितौ प्रयोजिका पक्षतात्मकसंशययोग्यता इत्युच्यते
(न्यायकोशः) ।
 
योनिः- १. कारणम् । यथा- महतः ऋग्वेदादेः .....सर्वज्ञकल्पस्य योनिः
कारणं ब्रह्म (ब्र० सू० १।१।३ शा० भा० ) । २. निमित्तकारणम् । यथा-
"ब्रह्मयोनित्वेति योनिशब्दो निमित्तार्थ:" (ब्र० सू० २।३ । १३) । यथा च – "प्रधानमेव
त्वक्षरशब्दनिर्दिष्टं भूतयोनिः । यदा तु योजिशब्दो निमित्तवाची, तदा शारीरोऽपि
भूतयोनिः स्यात्.... । एवं प्राप्तेऽभिधीयते .... योऽयमदृश्यत्वादिगुणको भूतयोनिः स
परमेश्वर एव स्यान्नान्य इंति" (ब्र० सू०१/२/२१ शा० भा० ) । यथा च - "तस्मात्
परमात्मविवर्ततया तद्योनिः, न तु परिणामतया" (तत्रैव भाम०) । ३. प्रमाणम् ।
यथा - "यद्यपि शास्त्रप्रमाणकं ब्रह्म (ब्र० सू० १।१।४ शा० भा०) ४. प्रजननाङ्गम् ।
५. उत्पत्तिकारणम् । ६. उत्पत्तिस्थानम् ।
 
-
 
रजः - सांख्यदर्शनोक्तो गुणविशेषः । यथा - चलं च रजः (सां० का० १३) ।
प्रकृतिस्त्रिगुणात्मिका । सत्त्वं रजस्तम इति त्रयो गुणाः । रजश्चलनात्मकं कर्म ।
गुणः । कस्तर्हि रजस्तमोभ्यां सत्त्वस्य विशेषः । स्वच्छता । अस्वच्छे च रजस्तमसी
(ब्र० सू० १/१/५ भाम०) । (क) जगत्कारणे या दुःखात्मता तद्रजः (सर्व० सं०