This page has not been fully proofread.

शाङ्करबेदान्तकोशः
 
-
 
योग्यता - यत्र वाक्ये तात्पर्यविषयीभूतस्य संसर्गस्य बाधो न भवेत् । यथा -
योग्यता च तात्पर्यविषयीभूतसंसर्गाबाधः । वह्निना सिञ्चतीत्यादौ तादृशसंसर्गबाधान्न
योग्यता । स प्रजापतिरात्मनो वपामुदखिदत इत्यादावपि तात्पर्यविषयीभूतपशुप्राशस्त्या-
बाधाद् योग्यता । तत्वमस्यादिवाक्येष्वपि वाच्याभेदबाधेऽपि लक्ष्यस्वरूपाभेदे बाधा-
भावाद् योग्यता (वे० प० ४ प०) । यथा च - कार्यविशेषजनने सामर्थ्यम् । तच्च-
१. (क) एकपदार्थे अपरपदार्थप्रकृतसंसर्गवत्त्वम् (न्या० म० ४ पृ० २२) । इयं
योग्यता च ज्ञाता सती शाब्दबोधप्रयोजिका शब्दयोग्यता इति व्यवह्नियते । इयं योग्यता
अयोग्यवाग्निरासिका च भवति । अत एव वह्निना सिञ्चतीत्यादिवाक्यान्नान्वयबोधः
प्रमात्मको भवति । योग्यताविरहात् (त० कौ०) (त० सौ०) । (ख) इतरपदार्थ-
संसर्गे अपरपदार्थनिष्ठात्यन्ताभावप्रतियोगितावच्छेदकधर्मशून्यत्वम् । (ग) बाधक-
प्रमाणाभावः । (घ) बाधकप्रमाविरहः । स चेतरपदार्थसंसर्गे अपरपदार्थनिष्ठात्यन्ताभाव-
प्रतियोगित्वप्रमाविशेष्यत्वाभाव: (चि० ४) । (ङ) अबाधितार्थकत्वम् (ग० अव०) ।
(च) अर्थाबाधः (त० सं० ४) २. (क) प्रतियोगितद्व्याप्येतरयावत्तदुपलम्भक-
समवहितत्वम् (मू० म० १) । न्यायमते योग्यानुपलब्धिरभावप्रत्यक्षे इन्द्रियस्य सहकारिणी ।
न तु भट्टमते इव प्रमाणान्तरम् । तथा च इयं योग्यता प्रतियोग्युपलम्भाभावात्मकानु-
पलब्धिनिष्ठा अनुपलब्धियोग्यता इति व्यवहियते । (ख) प्रतियोगिसत्त्वापादना-
पादितोपलम्भप्रतियोगिकत्वम् (तत्रैव नील० १ पृ० १८ ) । यथा यद्यत्र घटः
स्यात्तर्छुपलभ्येत इत्यापादयितुं शक्यते । तत्र घटाभावादेः प्रत्यक्षं भवति । अन्धकारे
तु नापादयितुं शक्यते । तेन घटाभावादेरन्धकारे न चाक्षुषप्रत्यक्षम् । स्पार्शनप्रत्यक्षं
भवत्येव । आलोकसंयोगं विनापि स्पार्शनप्रत्यक्षमापादयितुं शक्यत्वात्.... ।

गुरुत्वपिशाचादिकपदयोस् तदभावस्तु न योग्यः । प्रत्यक्षाभावात् । तत्र
गुरुत्वादिप्रत्यक्षस्यापादयितुमशक्यत्वात् । अतः गुरुत्वपिशाचाद्यभावानां जलपरमाणौ
पृथिवीत्वाद्यभावस्य च न प्रत्यक्षमिति (मु० १ पृ० १२४-१२६) । अत्र योग्यानुप-
लब्धौ योग्यता च योग्यप्रतियोगिप्रकारकयोग्याधिकरणविशेष्यकोलम्भप्रतियोगिकत्व-
मिति निर्वचनमपि चिन्तामणिकृन्मते सम्भवति (राम० १ पृ० १२३) । ३. जात्य-
वच्छिन्नप्रतियोगिताकत्वजात्यतिरिक्तयोग्यधर्मावच्छिन्नप्रतियोगिताकत्व एतदन्यतरत्
(दि० १।३ पृ० १२६-१२७) ।४. अनुमित्सानन्तरं लिङ्गदर्शनादिक्रमेण यावता काले-
नोत्सर्गतः परामर्शोत्पत्तिः जायते तावानेव कालः । अनुमित्सोत्पत्त्यधिकरणक्षणमारम्भ-
क्रमेण पक्षविषयकलिङ्गज्ञानव्याप्तिस्मरणयोरुत्पत्तौ सत्यामुत्सर्गतो यावता कालेन
 
तु
 
३७६