This page has not been fully proofread.

३७५
 
शाङ्कुरवेदान्तकोशः
 
योगारूढः- परमवैराग्ययुक्तः । यथा - "योगी परमहंसपरिव्राजकः परवैराग्ययुक्तो
योगारूढ उच्यते" (गी० ६।८ म० सू०) । यथा च - "समानि लोष्ठादीनि यस्य
स य ईदृशो योगी स युक्तः यथार्थयोगयुक्तः योगारूढ उच्यत इत्यर्थः (तत्रैव भाष्यो०) ।
 
P
 
योगी - १. ममत्वरहितः ईश्वरायैव यः कर्म करोति । यथा - "कायेन देहेन
मनसा बुद्ध्या च कैवलै र्ममत्ववर्जितैरपीश्वरायैव कर्म करोमि न मम फलायेति
ममत्वबुद्धिशून्यैरिन्द्रियैरपि केवलशब्दः कायादिभिरपि प्रत्येकं सम्बध्यते सर्वव्यापारेषु
ममतावर्जनाय योगिनः कर्मिणः कर्म कुर्वन्ति सङ्गं त्यक्त्वा...." (गी० ५/११
शा० भा०) ।२. ईश्वराराधनपरः । यथा च – "योगिनामेवेश्वराराधनलक्षणयोगवताम्"
(गी० ६।४२ भाष्यो०) । ३. ध्यायी तथा कर्मी । यथा - "योगिन इति योगिनः
कर्मिणश्चोच्यन्ते" (गी० ८।२३ शा० भा० ) । यथा च - "योगिनो ध्यायिनः
कर्मिणश्च"। (तत्रैव)। ४. परमेश्वरे समाहितान्तःकरणः । यथा - "योगिनामपि
सर्वेषां रुद्रादित्यादिध्यानपराणां मध्ये मद्गतेन मयि वासुदेवे समाहितेनान्तरात्मान्तः-
करणेन श्रद्धावान् श्रद्दधानः सन्भजते सेवते" (गी० ६।४७ शा० भा० ) । यथा च -
"योगिनां वसुरूद्रादित्यादिक्षुद्रदेवताभक्तानाम्" (तत्रैव म० सू०) । यथा च - "योगिनां
यमनियमादिपराणां मध्ये मद्भक्तः श्रेष्ठ इति" (तत्रैव श्रीधरी) । यथा च – "तत्र
ज्ञानयोगेन ज्ञानमेव योगस्तेन सांख्यानामात्मविषयविवेकज्ञानवतां ब्रह्मचर्याश्रमादेव
कृतसंन्यासानां वेदान्तविज्ञानसुनिश्चितार्थानां परमहंसपरिव्राजकानां ब्रह्मण्येवाव-
स्थितानां निष्ठा प्रोक्ता, कर्मयोगेन कर्मैव योगस्तेन योगेन योगिनां कर्मिणां निष्ठा
प्रोक्तेत्यर्थ:" (गी० ३।३ शा० भा० ) । यथा च - "सांख्यभूमिकामारुरुक्षूणां त्वन्त:-
करणशुद्धिद्वारा तदारोहार्थं तदुपायभूतकर्मयोगाधिकारिणां योगिनां कर्मयोगेन
निष्ठोक्ता 'धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते' इत्यादिना" (गी० ३।३ शा०
भा० ) । श्रीधरी टीकायां च । यथा च- "संख्या सम्यगात्मबुद्धिस्तां प्राप्तवतां
ब्रह्मचर्यादेव कृतसंन्यासानां वेदान्तविज्ञानसुनिश्चितार्थानां ज्ञानभूमिमारूढ़ानां
शुद्धान्तःकरणानां सांख्यानां ज्ञानयोगेन ज्ञानमेव युज्यते ब्रह्मणानेनेति व्युत्पत्त्या योगस्तेन
निष्ठोक्ता 'तानि सर्वाणि संयम्य युक्त आसीत् मत्परः इत्यादिना" (गी० ३।३ शा०
भा० म० सू० टी०) । ५. ऐश्वर्यसम्पन्नः । यथा- योगो नामैश्वर्यं तदस्यास्तीति
योगी । हे योगिन्" (गी० १०/१७ आ० गि०) । यथा च - "योग ऐश्वर्यं तद्वत्
हे योगिन्" (तत्रैव नी० क०) । यथा च - "योगो निरतिशयैश्वर्यादिशक्तिः
सोऽस्यास्तीति हे योगिन्निरतिशयैश्वर्यादिशक्तिशालिन्" (तत्रैव म० सू०) ।
 
(
 
-
 
-