2023-03-12 05:01:43 by ambuda-bot
This page has not been fully proofread.
शाङ्कुरवेदान्तकोशः
योगयुक्तात्मा- योगद्वारा प्राप्तसमाधिः । यथा- "योगयुक्तात्मा योगेन
समाहितचित्तः" (गी० ६।२९ नी० क० ) । यथा च - योगेनाभ्यस्यमानेन युक्तात्मा
समाहितचित्तः । (तत्रैव श्रीधरी) यथा च - योगयुक्तात्मा समाहितान्तःकरणः
(तत्रैव शा० भा० ) ।
३७४
-
योगाग्निः असम्प्रज्ञातलक्षणयोगरूपाग्निः । यथा - तानि चापर आत्म-
संयमयोगाग्नावात्मनि संयम आत्मसंयमः । स एव योगाग्निस्तस्मिन्नात्मसंयमयोगाग्नौ
जुह्वति प्रक्षिपन्ति ज्ञानदीपिते स्नेहेनेव प्रदीपिते विवेकज्ञानेनोज्वलभावमापादिते
प्रविलापयन्तीत्यर्थः (गी० ४।२७ शा० भा० ) 1 यथा च - "आत्मसंयमयोगाग्नौ
आत्मविषयकः संयमो धारणाध्यानसम्प्रज्ञातसमाधिरूपस्तत्परिपाके सति योगो
निरोधसमाधिः । यं पतञ्जलिः सूत्रयामास" व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ
निरोधक्षणचित्तान्वयो निरोधपरिणामः (पा० यो० ३।९ ) इति । व्युत्थानं क्षिप्तमूढ़-
विक्षिप्ताख्यं भूमित्रयं तत्संस्काराः समाधिविरोधिनस्ते योगिना प्रयलेन प्रतिदिनं प्रतिक्षणं
चाभिभूयन्ते तद्विरोधिनश्च निरोधसंस्काराः प्रादुर्भवन्ति । ततश्च निरोधमात्रक्षणेन
चित्तान्वयो निरोधपरिणाम इति । तस्य फलमाह ततः प्रशान्तवाहितासंस्कारादिति ।
तमोरजसोःक्षयाल्लयविक्षेपशून्यत्वेन शुद्धसत्त्वस्वरूपं चित्तप्रशान्तमित्युच्यते । पूर्वपूर्वप्रशम-
संस्कारपाटवेन तदाधिक्यं प्रशान्तवाहितेति । तत्कारणं च सूत्रयामास-विरामप्रत्ययाभ्यासपूर्वः
संस्कारशेषोऽन्यः" इति । विरामो वृत्त्युपरमस्तस्य प्रत्ययः कारणं वृत्त्युपरमार्थः
पुरुषप्रयत्नस्तस्याभ्यासः पौन पौन्येन सम्पादनं तत्पूर्वकस्तज्जन्योऽन्यः सम्प्रज्ञात-
विलक्षणोऽसम्प्रज्ञात इत्यर्थः । एतादृशो य आत्मसंयमयोगः स एवाग्निस्तस्मिन्
ज्ञानदीपिते ज्ञानं वेदान्तवाक्यजन्यो ब्रह्मात्म्यैकसाक्षात्कारस्तेनाविद्यातत्कार्यनाशद्वारा
दीपिते अत्यन्तोज्ज्वलिते बाधपूर्वके समाधौ समष्टिलिङ्गशरीरमपरे जुह्वति
प्रविलापयन्तीत्यर्थः (गी० ४।२७ म० सू०) ।
-
योगाचार:- (बौद्धाः) क्षणिकविज्ञानवादी बौद्धविशेषः । गुरुक्तभावना-
चतुष्टयं बाह्यार्थस्य शून्यत्वं चाङ्गीकृत्यान्तरस्य शून्यत्वं चाङ्गीकृतं कथमिति पर्यनुयोगस्य
करणात्केषांचिद्योगाचारप्रथा (सर्व० सं० पृ० ३० बौ०) । योगाचारमतं तु
बौद्धशब्दव्यानावसरे (पृ० ६०९) । संक्षेपतः सम्पादितम् (न्यायकोशः) । विशेषज्ञानार्थं
बौद्धशब्दो द्रष्टव्यः ।