2023-03-12 05:01:43 by ambuda-bot
This page has not been fully proofread.
शाङ्कुरवेदान्तकोशः
३७३
-
-
५।२।१६) । अथ आत्मस्थे मनसि षडङ्गयोगेन इन्द्रियादिकं परित्यज्य यदा आत्ममात्रे
तिष्ठति तदा मनः कर्मणोऽनुत्पादः तदा मनो निश्चलं भवति । तदवस्थायां
शरीरावच्छेदेन दुःखं न जायते । स आत्मना बाह्यव्यावृत्तमनसः संयोगो योग उच्यते ।
षडङ्गानि स्कन्दपुराणे उक्तानि यथा - आसनं, प्राणसंरोधः प्रत्याहारश्च धारणा । ध्यानं
समाधिरेतानि योगाङ्गानि भवन्ति षट् (वै० सू० ५/२।१६) (वै० वि०) इति । यद्वा
इन्द्रियाणि विषयेभ्यः प्रत्याहृत्येन्द्रियेभ्यो मनः प्रत्याहृत्य साक्षात्कर्तव्ये वस्तुनि मनः
प्रणिधानं योगः (नील०) इति । स च योगो द्विविधः राजयोगो हठयोगश्च । तत्र
राजयोगः पतञ्जलिनोक्तः । हठयोगस्तु तन्त्रशास्त्रोक्तः । प्राकारान्तरेणापि योगो
द्विविधः सम्प्रज्ञातः असम्प्रज्ञातश्चेति । तथा योगस्त्रिविधः ज्ञानयोगः कर्मयोगः भक्ति-
योगश्च ।(भाग० ११।२०।६) इति । इदं च बोध्यम् । षष्ठो भगवदवतारो दत्तात्रेयः ।
सच आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् (भाग० १/३ । १२ ) । तेन च
स्वसंहितायां योगोऽनुशिष्टः इति । ४. उपायः । ५. युक्तिः । ६. जीवात्मपरमात्मनोः
सम्बन्धः इति केचिद्वेदान्तिन आहुः । तदुक्तं- योगं संयोगमित्याहुर्जीवात्मपरमात्मनोः
इति (वाच०) । ७. देवतानुसन्धानं योगः इति रामानुजीयाः नारदपञ्चरात्रविदः आहुः
(सर्व० पृ० ११७ रामा०) ।८. अप्राप्तस्यार्थप्राप्तये पर्यनुयोगो योगः। यथा योगाचारः
इत्यादौ इति बौद्धा आहुः । ९. शब्दादीनां प्रयोगः इति वैयाकरणा आहुः ।
१०. भेषजमिति भिषज आहुः । ११. कामुककामिनीसम्मेलनं योगः इत्यलङ्कारिका
वदन्ति । १२. चित्रद्वारेणात्मेश्वरसम्बन्धो योगः (सर्व० सं० पृ० १६९ नकुली०)
(न्या० को०) ।
योगक्षेमः - अप्राप्तस्य प्राप्तिः योगः । प्राप्तस्य संरक्षणं क्षेमः । यथा - योगक्षेमं
वहाम्यहम् (गी० ९।२२ ) । अत्र शाङ्करभाष्यम्- योगक्षमं योगोऽप्राप्तस्य प्रापणं
क्षेमस्तद् रक्षणम् ।
योगमाया - १ गुणानां घटनम् । २. भगवतः सङ्कल्पानुविधायिनी ।
३. भगवत्सङ्कल्पवशवर्त्तिनी । यथा - "योगमायासमावृत्तः योगो गुणानां युक्तिर्घटनं सैव
माया योगमाया तया योगमायया समावृतः संच्छन्न इत्यर्थ: (गी० ७।२५ शा० भा०) ।
यथा च – योगो मम सङ्कल्पस्तद्वशवर्तिनी माया योगमाया तयाऽयं मद्भक्तो जनो
मां स्वरूपेण न जानाति सङ्कल्पानुविधायिन्या मायया सम्यगावृतः ।" (तत्रैव म० सू०) ।
यथा च - योगो गुणानां युक्तिर्घटनं सैव माया तया । यद्वा योगो भगवतश्चित्त-
समाधिस्तत्कृता माया । भगवत्सङ्कल्पवशवर्तिनीति यावत् (तत्रैव भाष्यो०)।