2023-03-12 05:01:43 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
समाध्यभ्यासं कुर्वन्निष्कलं प्रत्यगात्मस्वरूपं साक्षात्करोति सोऽयं योगमार्गः (गी०
३।३ नी० क०) । यथा च - "एकं सांख्यं च योगं च यः पश्यति स पश्यति" ।
.....ज्ञानयोगेन ज्ञानमेव युज्यते ब्रह्मणानेनेति व्युत्पत्त्या योगस्तेन निष्ठा उक्ता । द्वौ
क्रमौ चित्तनाशस्य योगो ज्ञानञ्च राघव । योगो वृत्तिनिरोधो हि ज्ञानं सम्यगवेक्षणम् ।
असाध्यकस्य चिद्योगः कस्यचित्तत्वनिश्चयः । प्रकारौ द्वौ ततो देवो जगाद परमः
शिवः । इति । चित्तदर्शनोपलक्षितस्य ब्रह्मसाक्षात्कारस्य द्वौ क्रमौ । चित्तादेर्मिथ्यात्वपक्षे
ज्ञानमेव यथा रज्जूरगादिसम्यगवेक्षणेनैव नश्यति तद्वत्तस्य सत्यत्वपक्षे योग एव ।
यथा उरगो मन्त्रादिना निरुद्धप्रचारः स्वयमेव नश्यति तद्वत् चित्तमपि योगेन
निरुध्यमानं नश्यति (तत्रैव म० सू०) । (ड) जीवपरमात्मनोरैक्यम् । यथा - "तदा
योगं जीवपरमात्मैक्यलक्षणं तत्त्वमस्यादिवाक्यजन्यमखण्डसाक्षात्कारं सर्वयोगफलम-
वाप्स्यसि" (गी० २।५३ म० सू०) । यथा च - "श्रुतिभिर्नानाविधशास्त्रश्रवणै-
विप्रतिपन्ना आत्मा नित्योऽनित्यो वा, नित्योऽपि कर्त्ताऽकर्त्ता वा, कर्त्ताप्येकोऽनेको
वेत्येवमादिसंशयग्रस्तासती यदा असम्भावनाविपरीतभावनानिरासपूर्वकं श्रुतितात्पर्य -
विषयीभूते ब्रह्माद्वैते निश्चला पुनः कुतर्कैरनास्कन्दनीया निर्विचिकित्सा परोक्षनिश्चयवती
भूत्वा समाधौ निर्विकल्पके प्रत्यगात्मनि अचला लयविक्षेपशून्या स्थास्यति स्थिरा
भविष्यति तदा योगं विवेकप्रज्ञां प्राप्स्यसि" (तत्रैव नी० क०) । (द) शास्त्रार्थविषये
सन्देहविपर्ययरहिता वृत्तिः (तै० उ० ब्र० व० अनु० ४ शा० भा०) (शङ्करानन्दी-
पदार्थबोधिन्याम्) । (ण) समाधानम् । यथा - "योगो युक्तिः समाधानम्" (तै० उ०
ब्र० व० २ अनु० ५ शा० भा०) । (त) उपात्तस्योपादनं योगः (गी० २।४५) ।
(थ) अप्राप्तस्य प्राप्तिर्योगः (गी० २।४५ नी० क० ) । १. सम्बन्धः । २. (क)
समुदायशब्दस्य अवयवशक्तिः (त० दी० ४) (नील० ४) (सि० च० ४।३१) ।
यथा पाचकादिपदेषु योगः । अत्र च पाचकादिपदात् पचतीति व्युत्पत्त्या पापकर्त्ता
बुद्ध्यत इति बोध्यम् । अत्र योगबलं समाख्या इति मीमांसका वदन्ति (वाच०) ।
(ख) वैयाकरणास्तु शास्त्रकल्पितावयवार्थमात्रबोधप्रयोजको योगः (शक्तिः) । यथा
पाचकादौ इत्याहुः (ल० म० आकांक्षादिवि० पृ० १२) । ३. (क) चित्तवृत्तिनिरोधः
इति योगिन आहुः (पात० पा० १ सू० २) । (ख) क्लेशकर्मविपाकाशयपरिपन्थिचित्त-
वृत्तिनिरोधो योगः (सर्व० सं० १३२ पात०) । अत्रेदं बोध्यम् । विषयेष्वलं प्रत्ययवत
उदासीनस्य बहिरिन्द्रियेभ्यो॒ो व्यावृत्तं मनो यदा आत्ममात्रनिष्ठं भवति तदा तत्कर्मानुगुणं
प्रयत्नाभावात्कर्म मनसि नोत्पद्यते स्थिरतरं मनो भवति स एव योगः (वै० उ०
३७२