This page has not been fully proofread.

३७१
 
शाङ्करवेदान्तकोशः
 
-
 
स संन्यासकर्मयोगोपायो यस्मिन् वेदार्थः परिसमाप्तः प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च,
गीतासु च सर्वास्वयमेव योगो विवक्षितो भगवता" (गी० ४१ शा० भा०) । यथा
च - रहस्यं हि यस्मादेतदुत्तमं योगो ज्ञानमित्यर्थः (तत्रैव ४ । ३ शा० भा०) । (ङ)
चित्तविक्षेपाभावः । यथा - "संन्यासो हि योगः, चित्तगतविक्षेपाभावश्च योगः, तौ
चास्य विद्येते फलत्यागात्, फलतृष्णारूपचित्तविक्षेपाभावाच्च" (तत्रैव ६।१ म० सू०) ।
(च) सम्यग्दर्शनोपायः । यथा - "योगेति । यदा पुनरयं सम्यग्दर्शनप्राप्त्युपायत्वेन योगेन
युक्तो विशुद्धात्मा विशुद्धसत्त्वो विजितात्मा विजितदेहो जितेन्द्रियश्च सर्वभूतात्मभूतात्मा
सर्वेषां ब्रह्मादीनां स्तम्बपर्यन्तानां भूतानामात्मभूत आत्मा प्रत्यक् चेतनो यस्य स
सर्वभूतात्मभूतात्मा । सम्यग्दर्शीत्यर्थ:" (तत्रैव ५।७ शा० भा०) । यथा च - "तथा
योगोऽप्यग्निहोत्रसन्ध्योपासनादिनिर्विकल्पसमाध्यन्तमनुष्ठानं तत्र मुख्ययोगाख्यलक्षणं
योगश्चित्तवृत्तिनिरोधः" इति । वृत्तयश्च प्रमाणविपर्ययविकल्पनिद्रास्मृतयः इति पञ्च
(तत्रैव ५।४ भाष्यो०) । (छ) ध्यानम् । यथा च - "ध्यानादिरूपो योगः" (ब्र० सू०.
२।२.३७ क० त० परि०) । यथा च - "योगोऽप्योङ्कारादिध्यानधारणादिः" (तत्रैव
भाम०) । (ज) सिद्धौ असिद्धौ च समत्वम् । यथा च - यदेतत् सिद्ध्यसिद्ध्योः समत्वम्
इदमेव योगस्थ इत्यत्र योग शब्देनोच्यते न तु कर्मेति न कोऽपि विरोधः इत्यर्थः
(गी० २।४८ म० सू०) । यथा च - "कोऽसौ योगो यत्रस्थः कुर्वित्युक्तमिदमेव तत्
सिद्ध्यसिद्ध्योः समत्वं योग उच्यते" (तत्रैव शा० भा०) । (झ) परमार्थदर्शनम्, तथा
(ञ) भगवदाराधनलक्षणसमत्वबुद्धिः । यथा - "योगसंन्यस्तकर्माणं परमार्थदर्शनलक्षणेन
योगेन संन्यस्तानि कर्माणि येन परमार्थदर्शिना धर्माधर्माख्यानि तं योगसंन्यस्तकर्माणम्"
(गी० ४।४ शा० भा०) । यथा च - "योगेन भगवदाराधनलक्षणसमत्वबुद्धिरूपेण
संन्यस्तानि भगवति समर्पितानि कर्माणि येन । यद्वा परमार्थदर्शनलक्षणेन योगेन
संन्यस्तानि त्यक्तानि कर्माणि येन तं योगसंन्यस्तकर्माणम्" (तत्रैव म० सू० ) ।
(ट) परब्रह्मणा सहैक्यदर्शने साधनं ब्रह्मनिष्ठत्वसाधनं वा । (ठ) सिद्ध्यसिद्ध्योः
समभावः । यथा - "युज्यते परब्रह्मणानेनेति योग:" (गी० ३।३ भाष्यो०) । यथा
च- "योगिनां सिद्ध्यसिद्धयोर्भूत्वा समत्वं योग उच्यते इत्युक्तलक्षणयोगवतां
कर्मयोगेन सन्ध्योपासनादिनिर्विकल्पकसमाध्यनुष्ठानमिह कर्मयोगपदार्थः तेन
योगिनो ब्रह्मनिष्ठां प्राप्नुवन्तीत्यर्थः ।.... तथा सर्वाणि कर्माणि परमगुरावर्पयञ्श्रवण-
मननात्मकं विचारमन्तरेणैव केवलं श्रद्धामात्राप्रतीचो निर्विशेषब्रह्मरूपत्वं गुरूवाक्यतो
निश्चित्यासम्भवनादिदोषरहित आचार्यान्निर्गुणब्रह्मोपास्तिप्रकारमधिगम्य कर्मच्छिदेषु
 
-