2023-03-12 05:01:42 by ambuda-bot
This page has not been fully proofread.
३७०
शाङ्करवेदान्तकोशः
८५ सु० टी०) । यथा च - निवर्त्तकशास्त्रवेद्या यमाः (सं० शा० अ० का० टी०) ।
यथा च - तत्र अहिंसास्ते ब्रह्मचर्यापरिग्रहाः यमा: (पा० यो० सू० २।३०)।
यशः - धर्मजन्यकीर्तिः । यथा - "यशः
शा० भा० ) । यथा च -'यशो धर्मनिमित्ता
म० सू० ) ।
धर्मनिमित्ता कीर्त्तिः (गी० १०/५
लोकश्लाघारूपा प्रसिद्धिः (तत्रैव
याज्ञवल्क्यः - यज्ञस्य वल्को वक्ता यज्ञवल्कः तस्यापत्यं याज्ञवल्क्यो
दैवारातिरित्यर्थः (बृ० उप० १।४।३) ।
-
युक्तः – परमेश्वरनिष्ठसर्वकर्मफलत्यागी । यथा – "यस्माच्च युक्त ईश्वराय
कर्माणि करोमि न मम फलाय इत्येवं समाहितः सन् कर्मफलं त्यक्त्वा .... प्राप्नोति
(गी० ५/१२ शा० भा० ) । यथा च - युक्तो ब्रह्मण्याधाय कर्माणीत्यादिनोक्तलक्षणः
कर्मणां फलं त्यक्त्वा ईश्वरे समर्प्य शान्ति.... प्राप्नोति (तत्रैव नी० क० ) । यथा
च - युक्तः ईश्वरायैवैतानि कर्माणि न मम फलायेत्येवमभिप्रायवान् (तत्रैव म० सू० ) ।
यथा च – युक्तः परमेश्वरैकनिष्ठः सन् कर्मणां फलं त्यक्त्वा.... कर्माणि कुर्वन्नात्यन्तिकीं
शान्तिं मोक्षं प्राप्नोति (तत्रैव श्रीधरी) ।
योगः – १ . (क) आत्मनो योगैश्वर्यसर्वज्ञत्वादिशक्तिः यथा – "विस्तरेणात्मनो
योगं योगैश्वर्यशक्तिविशेषम् (गी० १०/१८ शा० भा० ) । यथा च - आत्मनस्तव
योगं सर्वज्ञत्वसर्वशक्तित्वादिलक्षणं योगैश्वर्यं विभूतिं च विस्तरेण पुनः कथय" (तत्रैव
श्रीधरी) । (ख) चित्तैकाग्रतया आत्मसंवेद्यताप्राप्तिः । यथा च "अवगताना-
मिन्द्रियाद्युपसंहारेणैकाग्रतया स्वात्मसंवेद्यतापादनं योगः" (गी० १६/१ शा० भा० ) ।
यथा च - "योगो ज्ञातेऽर्थे चित्तप्रणिधानं तयोर्व्यवस्थितिः" (तत्रैव नी० क० ) ।
यथा च – "योगो मनोनाशवासनाक्षयानुकूल: पुरुषप्रयत्नस्ताभ्यां विशिष्टा संसारि
विलक्षणावस्थितिर्जीवन्मुक्तिर्ज्ञानयोगव्यवस्थितिरित्येवं व्याख्यायते तदा फलीभूतं दैवी
सम्पदियं द्रष्टव्या" (तत्रैव म० सू०) । यथा च - "योगस्तयोर्व्यवस्थितिः व्यवस्थानं
तन्निष्ठता" (तत्रैव भाष्यो) । (ग) युक्तिः, घटनम् । यथा – "अतएवासङ्गित्वान्मम
न च मत्स्थानि भूतानि ब्रह्मादीनि पश्य मे योगं युक्तिं घटनं मे ममेश्वरस्येदमैश्वरं
योगमात्मनो याथास्यमित्यर्थ:" (गी० ९।५ शा० भा०) । यथा च - योगं युक्ति घटनां
ममैश्वरं याथाल्यभावम् । तथा च श्रुतिः 'असङ्गो न सज्जते' इति (तत्रैव
भाष्यो०) । (घ) ज्ञानम् । यथा - "योऽयं योगोऽध्यायद्वयेनोक्तो ज्ञाननिष्ठालक्षणः