2023-03-12 05:01:42 by ambuda-bot
This page has not been fully proofread.
शावेदान्तकोशः
सत्यज्ञानानन्तानन्दात्ममखण्डैकरसं वस्तु तदेव ज्ञातं सत्सर्वकर्मदग्धृत्वादग्निरिवाग्नि-
ब्रह्माग्निस् तत्र यज्ञं जीवम् । यज्ञशब्दस्यात्मानामसु पाठात् । सोपाधिं ज्ञानेनैवात्मनैव
निरुपाधिकेन रूपेण जुह्वति घटाकाशमिव महाकाशे उपाधिप्रहाणेन प्रविलापयन्ति
सोऽयं ज्ञानयज्ञो मुख्यः । ३. विष्णु । यज्ञो ह वै विष्णुः इति श्रुतिः ।
इति वैष्णवाः ।
-
--
यज्ञशिष्टाशी - यो यज्ञशिष्टमन्नमश्नाति स यज्ञशिष्टाशी । यथा - ये
पुनर्देवयज्ञादीन्निर्वर्त्य तच्छिष्टमशनममृताख्यमशितुं शीलं येषां ते यज्ञशिष्टाशिनः
(गी० ३/१३ शा० भा० ) । यथा च ये तु यज्ञशिष्टाशिनो वैश्वदेवादिशेषान्न-
भोजनशीलाः सन्तः ऋणापाकरणात् ते मुच्यन्ते सर्वकिल्विषैः प्रमादकृतैर्विहिता-
करणनिमित्तैर्पञ्चसूनानिमित्तैर्वा (तत्रैव नी० क० ) । यथा च - "ये तु वैश्वदेवादि-
यज्ञावशिष्टममृतमश्नन्ति ते सन्तः शिष्टाः वेदोक्तकारित्वेन देवर्णापाकरणात् । अतस्ते
मुच्यन्ते" (तत्रैव म० सू०) । यथा च - ये पुनर्यज्ञान् - ब्रह्मयज्ञो देवयज्ञः पितृयज्ञस्तथैव
च । भूतयज्ञो नृयज्ञश्च पञ्चयज्ञाः प्रकीर्तिताः ॥ अध्यापनमध्ययनं चाद्यः होमो द्वितीयः,
तर्पणश्राद्धं तृतीयः, भूतेभ्यो बलिदानं चतुर्थः, अतिथिपूजनं पञ्चमः इत्युक्तान् कृत्वा
तच्छिष्टममृतमशितुं शीलं येषां ते सन्तः सर्वपापैः कण्डणी पेषणी चुल्ली उदकुम्भी
च मार्जनी । पञ्चसूना गृहस्थस्य सदा' इति स्मृत्युक्तैः पञ्चसूनाकृतैरन्यैश्च मुच्यन्ते"
(तत्रैव भाष्यो०) ।
-
यथार्थबुद्धिः – तद्वति तत्रकारकं ज्ञानम् । यथा घटे अयं घटः इति ज्ञानम् ।
इदं च लक्षणं स्मृत्यनुभवोभयसाधारणमपि भवति इति विज्ञेयम् । अत्र याथार्थ्यं च
फलवप्रवृत्तिजननयोग्यत्वम् (त० कौ० १ पृ० ७) । तद्वति तदवगाहित्वं वा । सर्वांशे
याथार्थ्यं तु स्वानधिकरणवृत्तिप्रकारतावच्छिन्ना या या विषयता तत्तदनिरूपकत्वम्
(ग० २ हेत्वा० सामा०) (न्यायकोशः) ।
-
यथार्थवक्ता – (आप्तः) प्रकृतवाक्यार्थविषयक यथार्थशाब्दबोधविषयकतात्पर्यवान्
(वाक्य० ४ पृ० १९) । यथा आप्तवाक्यं प्रमाणशब्दः इत्यादौ सत्यवतीसुतव्यासो
गौतमकणादौ च यथार्थवक्तारः । शाब्दबोधे याथार्थ्यं च तद्वति तत्प्रकारकनिश्चयत्वमेवेति
ज्ञेयम् (न्यायकोशः) ।
यमाः - अहिंसादयः । एते अन्तःकरणवृत्तिरूपाः । यथा - अहिंसासत्यास्तेय-
ब्रह्मचर्यापरिग्रहा यमा एते निवृत्तिरूपाः । अत्रत्यनिवर्त्तकशास्त्रवेद्या यमाः (सं० शा०