This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
-
 
मोहशक्तिः - परमेश्वरस्य मायाशक्तिः । यथा - "माहेश्वरी तु माया या तस्या
निर्माणशक्तिवत् । विद्यते मोहशक्तिश्च तं जीवं मोहयत्यसौ (प० द० ४।१२ ) ।
 
३६८
 
मौनम् - मननशीलस्य मुनेः अवस्थाविशेषो भावः । यथा – "ज्ञानातिशयस्तु
मौनम् (ब्र० सू० ३।४।२७ भाम० ) । यथा च - मुनिर्मननशीलो निदिध्यासकः
(तत्रैव क० त० ) ।
 
-
 
17
 
यज्ञः - १. (क) पञ्चविधो महायज्ञस्तत्र ब्रह्मयज्ञस्य प्राधान्यम् । ब्रह्मयज्ञशब्दे
ब्रह्मशब्दो वेदपरः । यथा - "यज्ञश्च श्रौतोऽग्निहोत्रादिः, स्मार्तश्च देवयज्ञादि: ' (गी०
१६।१ शा० भा०) । यथा च - "यज्ञः श्रौतस्मार्तादि:" (तत्रैव नी० क० ) । यथा
च – "यज्ञश्च श्रौतोऽग्निहोत्रदर्शपूर्णमासादिः, स्मार्तो देवयज्ञः, पितृयज्ञो, भूतयज्ञो,
मनुष्ययज्ञ इति चतुर्विधः । ब्रह्मयज्ञस्य स्वाध्यायपदेन पृथगुक्तेः । एतत्रयं गृहस्थस्य ।
स्वाध्यायो ब्रह्मयज्ञः अदृष्टार्थमृग्वेदाद्यध्ययनरूपो यज्ञशब्देन पञ्चविधमहायज्ञोक्ति-
सम्भवेऽप्यसाधारण्येन ब्रह्मचारिधर्मत्वकथनार्थं पृथगुक्तिः (तत्रैव म० सू०) । यथा च -

यज्ञश्च श्रौतोऽग्निहोत्रादि: देवयज्ञ: स्मार्तश्च पितृयज्ञो भूतयज्ञो मनुष्ययज्ञश्चेति
त्रिविधः । स्वाध्यायोऽदृष्टार्थे ऋग्वेदाद्यध्ययनं तदध्यापनं च ब्रह्मयज्ञः (तत्रैव भाष्यो०) ।
यथा च – "यज्ञो यथाधिकारं दर्शपूर्णमासादिः, स्वाध्यायो ब्रह्मयज्ञादिर्जपयज्ञः'
(तत्रैव श्रीधरी) । (ख) परमेश्वरः विष्णुश्च । यथा - "यज्ञः परमेश्वरः" "यज्ञो वै
विष्णुः इति श्रुतेः (गी० ३।९ म० सू०) । यथा च - "यज्ञोऽत्र" विष्णुः । यज्ञो
वै विष्णुः इति श्रुते (तत्रैव श्रीधरी) । यथा च - "यज्ञार्थादीश्वरात् यज्ञो वै विष्णुः"
इति श्रुतेः (तत्रैव भाष्यो०) (२. आत्मा । यथा - यज्ञं यज्ञशब्दवाच्य आत्मा आत्मनामसु
यज्ञशब्दस्य पाठात्तमात्मानं यज्ञं प्रक्षिपन्ति । सोऽयं सम्यग्दर्शनलक्षणो यज्ञो
दैवयज्ञादिषु यज्ञेषूपक्षिप्यते ब्रह्मार्पणमित्यादिश्लोकैः "श्रेयान् द्रव्ममयाद्यज्ञाज्ज्ञानयज्ञः
परंतप इत्यादिस्तुत्यर्थम्" (गी० ४।२५ शा० भा० ) । यथा च - देवा इन्द्राग्न्यादय
इज्यन्ते येन स दैवस्तमेव यज्ञं दर्शपूर्णमासज्योतिष्टोमादिरूपमपरे योगिनः कर्मिणः
पर्युपासते । सदा कुर्वन्ति न ज्ञानयज्ञम् । एवं कर्मयज्ञमुक्त्वाऽन्तःकरणशुद्धिद्वारेण
तत्फलभूतं ज्ञानयज्ञमाह - ब्रह्माग्नौ सत्यज्ञानानन्तानन्दरूपं निरस्तसमस्तविशेषं ब्रह्म
तत्पदार्थस्तस्मिन्नग्नौ यज्ञं प्रत्यगात्मानं त्वंपदार्थयज्ञेनैव । यज्ञशब्दः आत्मनामसु
यास्केन पठितः (गी० ४।२५ म० सू०) । यथा च - "दैवं देवताप्रधानमेव
दर्शपूर्णमासादियज्ञं नान्यं एके योगिनः कर्मयोगिनः पर्युपासते, अपरे तु ब्रह्मैव