2023-03-12 05:01:41 by ambuda-bot
This page has not been fully proofread.
शाङ्कवेदान्तकोशः
कर्मसमृद्धिः फलम् । क्रममुक्तौ न विवादः । जीवन्मुक्तौ चत्वारि मतानि - अविद्याया
आवरणशक्तेर्नाशेऽपि प्रारब्धकर्मवशाद् विक्षेपशक्तेर्लेश एव देहाद्यनुवृत्तिप्रयोजकः ।
क्षालितलशुनभाण्डगन्धवद् अविद्यावासनालेशः । दग्धपटन्यायेनानुवृत्ता मूलाविद्यैव ।
सर्वज्ञात्ममुनिमते तु अविद्यालेशाभावाद् जीवन्मुक्तिर्नास्त्येव । जीवन्मुक्तिप्रतिपादकं
शास्त्रमर्थवादमात्रम् । सगुणोपासकानां मते सालोक्यसामीप्यादयोः पञ्च मुक्तिभेदाः ।
अधिकं सि० ले० संग्रहे ।
मोक्षसाधनम् - तत्त्वमस्यादिवाक्योत्थं केवलं ज्ञानम् । यथा- स च ज्ञानैक-
साध्यः । तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय (श्वे० उ० ३।८)
इति श्रुतेः अज्ञाननिवृत्तेर्ज्ञानैकसाध्यत्वनियमाच्च । तच्च ज्ञानं ब्रह्मात्मैक्यगोचरम् ।
अभयं वै जनक प्राप्तोऽसि (बृ० उ० ४।२।४) तदात्मानमेव वेदाहं ब्रह्मास्मि
(बृ० उ० १ ।४।१०) । इति श्रुतेः । तत्त्वमस्यादिवाक्योत्थं ज्ञानं मोक्षस्य साधनम्
इति नारदीयवचनाच्च । तच्च ज्ञानमपरोक्षम् । परोक्षत्वेऽपरोक्षभ्रमनिवर्तकत्वानुपपत्तेः ।
तच्चापरोक्षज्ञानं तत्त्वमस्यादिवाक्यादिति केचित् । मनननिदिध्यासनसंस्कृतान्त:-
करणादेवेत्यपरे (वे० प० ८ प०) । अत्र केचिदिति विवरणप्रस्थानानुयायिनः ।
अपरे भामतीप्रस्थानानुयायिनः । शब्दादेव अपरोक्षज्ञानमित्यत्र शास्त्रदृष्ट्या तूपदेशो
वामदेववत् (ब्र० सू० १/१/३१) इति प्रमाणम् । मनननिदिध्यासनसंस्कृतं मन
एव ब्रह्मसाक्षात्कारे करणमित्यत्र करणविशेषनिबन्धनमेव ज्ञानानां प्रत्यक्षत्वम्, न
विषयविशेषनिबन्धनम् । तेन संवित्साक्षात्त्वे इन्द्रियजन्यत्वस्यैव प्रयोजकत्वमिति नियमः
प्रमाणम् । अतः संस्कृतं मन एव ब्रह्मसाक्षात्कारे करणम् । ब्रह्मसाक्षात्कारे कर्म न
कारणम् । कर्मणः फलम् आप्यं विकार्यमुत्पाद्यं भवति । एतच्च मोक्षे नास्ति ।
ज्ञानकर्मसमुच्चयोऽपि न कारणम् । अधिकं ज्ञानकर्मसमुच्चयशब्दे द्रष्टव्यम् । तथा
मुक्तिसाधनशब्दे मनश्शब्दे च द्रष्टव्यम् ।
-
-
मोहः – (क) भ्रमः । यथा - मोहस्तु विपरीतप्रत्ययप्रभवोऽविवेको भ्रमः । स
च अविद्या सर्वस्यानर्थस्य प्रसवबीजम् (बृ० उप० ३।५।१ शा० भा०) । विशेष-
ज्ञानार्थं भ्रमशब्दो द्रष्टव्यः । (ख) १. मिथ्या प्रतिपत्तिलक्षण: दोषः (वात्स्या ४।१।३) ।
यथा शरीरादावात्मभ्रमः (त० दी०) । तमोगुणप्रयोज्योऽन्तःकरणपरिणामविशेषः इति
सांख्या आहुः । तत्स्वरूपं तु उपेक्षाविषयत्वम् । उपेक्षाविषयत्वं नाम मोहः (सर्व० सं०
पृ० ३२६ सा०) संसारहेत्वविद्याप्रयोज्यान्तःकरणवृत्तिविशेषः इति मायावादिन आहुः ।
भ्रान्तिसाधनमज्ञानमिति मेदिनीकार आह । २. वेदान्तिनस्तु मूर्छा इत्याहुः । अत्राधिकं
तु मूर्छनशब्द व्याख्याने द्रष्टव्यम् । ३. चित्तवैकल्यं मोह: (मिता० अ० २ श्लो०
२१४) । ४. दुःखम् (शब्द० २०) । (न्यायकोशः)