This page has not been fully proofread.

शाङ्कवेदान्तकोशः
 
४।४।११ शा० भा०) ।बादरणाचार्यः सकल्पानुसारं सशरीरताम् अशरीरतां च मनुते ।
यथा- बादरायणः पुनराचार्योऽत एवोभयलिङ्गश्रुतिदर्शनादुभयविधत्वं साधु मन्यते
(ब्र० सू० ४।४।१२ शा० भा०) । देहोच्छेदो मोक्ष इति चार्वाकाः । माध्यमिकशून्यवादि-
बौद्धमते सर्वं शून्यमिति सिद्धान्ते मोक्षोऽपि शून्यो मिथ्यैव । विज्ञानवादियोगाचार-
बौद्धमते प्रवृतिविज्ञानमालयविज्ञानं च द्वयम् । तत्रालयविज्ञानधारारूप एव मोक्षः ।
वैभाषिकसौत्रान्तिकबौद्धयोर्मतेऽप्येवमेव । स्वर्गविशेष एव मोक्ष इति पूर्वमीमांसकाः ।
आत्यन्तिकदुःखोच्छेदो मोक्षः इति न्यायवैशेषिकाः । उर्द्ध्वलोकप्राप्तिरिति आर्हताः
(उमास्वाती-तत्त्वार्थसूत्रे) । विशिष्टाद्वैतवादिनां द्वैतवादिनां च वेदान्तिनां सालोक्यादि-
सशरीरता मुक्तिः (ब्र० सू० ४/४/१३-२१ शा० भा० ) ।
 
अपरञ्च शोकनिवृत्तिः- यथा- आनन्दात्मकब्रह्मावाप्तिश्च मोक्षः ।
शोकनिवृत्तिश्च । ब्रह्मवेद ब्रह्मैव भवति (मु० ३।२।९) । तरति शोकमात्मवित् ( छा०
१ ।१।३) । इत्यादिश्रुतेः । न तु लोकान्तरावाप्तिः तज्जन्यवैषयिकानन्दो वा मोक्षः ।
तस्य कृतकत्वेनानित्यत्वे मुक्तस्य पुनरावृत्त्यापत्तेः । ननु त्वन्मतेऽप्यानन्दावाप्तेरनर्थ-
निवृत्तेश्च सादित्वे तुल्यो दोषः, अनादित्वे मोक्षमुद्दिश्य श्रवणादौ प्रवृत्त्यनुपपत्तिरिति,
नः सिद्धस्यैव ब्रह्मस्वरूपस्य मोक्षस्यासिद्धत्वभ्रमेण तत्साधने प्रवृत्त्युपपत्तेः (वे० प०
८ प० ) । १. निःश्रेयसम् । मिथ्यादर्शनादीनां बन्धहेतूनां निरोधेऽभिनवकर्मा-
भावान्निर्जराहेतुसंनिधानेनार्जितस्य कर्मणो निरसनादात्यन्तिककर्ममोक्षणं मोक्षः (सर्व०
सं० पृ० ८० आई०) इत्यार्हताः । आत्मोच्छेदो मोक्षः (सर्व० सं० पृ० २४७ अक्ष०)
इति केचित् । स्वातन्त्र्यं मोक्ष: (सर्व० सं० पृ० २४९ अक्षपा०) इत्यन्ये । अविद्यास्तमयो
मोक्षः (सर्व० सं० पृ० ४०२ शां० ) । इत्यपरे । २. मोचनम् । यथा नीविमोक्षो हि
मोक्षः (सा० द०) । इत्यादौ इत्यालंकारिका आहुः । ३. मरणम् (हेम०) । (न्यायकोश:)
 
मोक्षभेदः - शाङ्करमते मोक्षस्त्रिधा विभज्यते- क्रममुक्तिः, जीवन्मुक्तिः
विदेहमुक्तिश्च । यथा - तत्र कानिचिद् उपासनान्यभ्युदयार्थानि कानिचित् क्रम-
मुक्त्यर्थानि, कानिचित् कर्मसमृद्ध्यर्थानि (ब्र० सू० १/१/११ शा० भा०) । अत्र
वेदान्तकल्पतरौ अभ्युदयार्थानि प्रतीकोपासनानि, क्रममुक्त्यर्थानि दहराद्युपासनानि
कर्मसमृद्ध्यर्थानि उद्गीथादिध्यानानि । अत्रत्यरत्नप्रभायां च नामब्रह्म इत्याद्युपास्तीनां
कामचारादिरभ्युदयः फलम्, दहरादुपास्तीनां क्रममुक्तिः फलम्, उद्गीथादिध्यानस्य