2023-03-12 05:01:41 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
-
(गी० १३३४ शा० भा० ) । यथा च भूतानां वियदादीनां प्रकृतिरुपादानं
त्रिगुणात्मिका अविद्या तस्या विद्याया मोक्षं निरन्वयोच्छेदं च ये विदुस्त एव परं यान्ति
न तु क्षेत्रक्षेत्रज्ञयोरन्तरमात्रविद् इत्यर्थः (तत्रैव नी० क०) । यथा च - भूतप्रकृति-
मोक्षं च भूतानां सर्वेषां प्रकृतिरविद्या मायाख्या तस्याः परमार्थात्मविद्यया मोक्षमभावगमनं
च ये विदुर्जानन्ति ते परं परमार्थात्मवस्तुस्वरूपं कैवल्यं न पुनर्देहमाददत इत्यर्थः
(तत्रैव० म० सू० ) । यथा च- भूतानां प्रकृतिस्तस्याः सकाशान्मोक्षं मोक्षोपायं
ध्यानादिकं च ये विदुस्ते परं पदं यान्ति (तत्रैव श्रीधरी) । (ग) यथा च - तस्मादविद्या-
कामकर्मोपादानहेतुनिवृत्तौ स्वात्मन्यवस्थानं मोक्ष इति । स्वयं चात्मा ब्रह्म तद्विज्ञानात्
अविद्यानिवृत्तिः मोक्ष इति । मोक्षो हि भावरूपः (तै० उ० शि० अनु० १ शा० भा० ) ।
३.ब्रह्मरूपाविर्भावःस्वस्वरूपावगतिरिति । यथा - ततोऽविद्यानिवृत्त्या ब्रह्मरूपाविर्भावो
मोक्षः, न तु विद्याकार्यस्तज्जनितापूर्वकार्यो वेति सूत्रार्थ: (ब्र० सू० १।१।४ भाम० ) ।
४. अविद्याकल्पितसंसारित्वनिवर्तनम् । यथा- अतोऽविद्याकल्पितसंसारित्वनिवर्तनेन
नित्यमुक्तात्मस्वरूपसमर्पणात् न मोक्षस्यानित्यत्वदोषः । यस्य तूत्पाद्यो मोक्षस्तस्य मानसं
वाचिकं कायिकं वा कार्यमपेक्षत इति युक्तम् । तथा विकार्यत्वे च तयोः पक्षयोर्मोक्षस्य
ध्रुवमनित्यत्वम् । न हि दध्यादि विकार्यमुत्पाद्यं वा घटादि नित्यं दृष्टं लोके (ब्र०
सू० १ ।१।४ शा० भा०) । ५. स्वर्गः प्रकरणानुरोधात् क्वचित् क्वचिद् यथा - तेन
धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमिव उर्ध्वं विमुक्ता: (बृ० उप० ४।४।८ शा०
भा०) । ब्रह्मविद्याफलं मोक्षं स्वर्गलोकम् । स्वर्गलोकशब्दस्त्रिविष्टपवाच्यपि सन्निह
प्रकरणान् मोक्षाभिधायकः (तत्रैव शा० भा०) । ६. आत्मनः शरीरेन्द्रियरहितस्यापि
मनसा सर्वकामभुजः अवस्था इति आचार्यबादरिमतम् । यथा - मनसैतान् कामान्
पश्यन् रमते (छा० ८।१२।५) । य एते ब्रह्मलोके (छा० ८।१३।१) । इति मनसा
शरीरेन्द्रियैश्च विहरेन् मनसेति विशेषणं न स्यात् । तस्मादभावः शरीरेन्द्रियाणां मोक्षे
(ब्र० सू० ४।४।१० शा० भा०) ।७. मोक्षः आत्मन एकावस्था । यस्यामवस्थायामात्मा
स्वेच्छया सङ्कल्पबलेन सशरीरः अशरीरोऽपि भवितुमर्हति इति आचार्यजैमिनिमतम् ।
यथा - जैमिनिस्त्वाचार्यो मनोवच्छरीरस्यापि सेन्द्रियस्य भावं मुक्तं प्रति मन्यते । यतः
स एकधा भवति त्रिधा भवति (छा० उ० ८।१२।५) (इत्यादिनाऽनेकधा विकल्पमामनन्ति ।
नहि अनेकविधता विना शरीरभेदेनाञ्जसी स्यात् । यद्यपि निर्गुणायां
भूमविद्यायामयमनेकधाभावविकल्पः पठ्यते तथापि विद्यमानमेवेदं सगुणावस्थायामैश्वर्यं
भूमविद्यास्तुतये संकीर्त्यत इत्यतः सगुणविद्याफलभावेनोपतिष्ठत इति (ब्र० सू०