2023-03-12 05:01:41 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
पुरुषार्थसिद्धिः तत्रैवाग्र्यादिसम्बद्धा क्रियापेक्षा । स्मृतेश्च जप्येनैव तु संसिध्येद् ब्राह्मणो
नात्र संशयः कुर्यन्यन्न वा कुर्यान् मैत्रो ब्राह्मण उच्यते (मनु० २१८७) (बृ० आ०
उप० १/४/१५ शा० भा० ) ।
-
मोक्षः - १. (क) ब्रह्मभावापन्नः । यथा - यथा च किंबहुनायं देहयात्रामात्रार्थ
मिच्छानिच्छापरेच्छाप्रापितानि
सुखदुःखलक्षणान्यारब्धफलान्यनुभवन्नन्तःकरणा-
भासादीनामवभासकः संस्तदवसाने प्रत्यगानन्दपरब्रह्मणि प्राणे लीने सत्यज्ञानतत्कार्य-
संस्काराणामपि विनाशात् परमकैवल्यमानन्दैकरसमखिलभेदप्रतिभासरहितमखण्डं
ब्रह्मावतिष्ठते (वे० सा०) । यथा च - निर्गुणब्रह्मसाक्षात्कारवतस्तु न लोकान्तरगमनम् ।
न तस्य प्राणा उत्कामन्ति ( बृ० उ० ४।४ । ६) इति श्रुतेः । किन्तु यावत् प्रारब्धकर्मक्षयं
सुखदुःखे अनुभूय पश्चादपवृज्यते (वे० प० ८ प० ) । यथा - तत्र किं ज्योतिरेवायं
पुरुष इत्यादिनाऽत्रायं पुरुषः स्वयंज्योतिरित्यन्तेनात्मनः सर्वव्यवहारसाक्षितया
विशुद्धचैतन्यज्योतिः स्वरूपत्वमुपपाद्य ततः परेण ग्रन्थेनावस्थात्रयस्याऽऽगमापायि-
त्वोक्तिपूर्वकं महामत्स्यनिदर्शनेनासङ्गत्वं चोपपाद्याऽत्मने नित्यशुद्धचिद्रूपत्वं प्रतिपादितं
दृश्यते । अतो नात्र शङ्का कार्येत्यर्थः । मोक्षायेति ब्रह्मभावायेत्यर्थ: (सं० शा० ३।१४१
अ० टी०) । (ख) यथा च - ब्रह्मभावश्च मोक्षः । तस्मान्न संस्कार्योऽपि मोक्षः (ब्र०
सू० १/१/४ शा० भा०) (ग) यथा - नापि संस्कार्यो मोक्षः येन व्यापारमपेक्षते ।
....न तावद् गुणाधानेन सम्भवति, अनाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्य । नापि दोषाप-
नयनेन, नित्यशुद्धब्रह्मस्वरूपत्वान्मोक्षस्य, स्वात्मधर्म एव संस्तिरोभूतो मोक्षः क्रिययात्मनि
संस्क्रियमाणेऽभिव्यज्यते (ब्र० सू० १/१/४ शा० भा० ) । यथा - कार्यमपूर्वं
यागादिव्यापारजन्यं तमपेक्षते मोक्षः स्वोत्पत्ताविति । ....क्षणिकं ज्ञानमात्मेति बौद्धाः ।
तथा च विशुद्धज्ञानोत्पादो मोक्ष इति निर्वर्त्यो मोक्षः, अन्येषां तु संसाररूपावस्था-
मपहाय या कैवल्यावस्था वाप्तिरात्मनः स मोक्ष इति विकार्यो मोक्षः । ....तदेतयोः
पक्षयोरनित्यता मोक्षस्य कार्यत्वात्, दधिघटादिवत् । ब्रह्मस्वभाव एव मोक्षोऽनाद्य-
विद्यामलावृत्त उपसनादिक्रिययात्मनि संस्क्रियमाणेऽभिव्यज्यते (तत्रैव भाम० ) । २.
(क) अविद्यानाशः । यथा - बन्धननाश एव हि मोक्षः, न कार्यभूतः, बन्धनं
चाविद्येत्यवोचाम (बृ० . उ० ३।३।१ शा० भा०) । (ख) भूतप्रकृतिमोक्षं च
भूतानां प्रकृतिरविद्यालक्षणाऽव्यक्ताख्या तस्या भूतप्रकृतेर्मोक्षणमभावगमनं च ये
विदुर्विजानन्ति यान्ति गच्छन्ति ते परं परमार्थतत्त्वं ब्रह्म न पुनर्देहमाददत्त इत्यर्थः
……..
!