This page has been fully proofread once and needs a second look.

शाङ्कवेदान्तकोशः
 
मूलप्रकृतिः- , मूलप्रकृति
या मूलप्रकृतिरम्युपगम्यते तदेव च नो ब्रह्मेत्यविरोधः । (ब्र०

सू० २।३।९ शा० भा०)
 
-
 

 
मूलाबिविद्या- , मूलाविद्या
अविद्या द्विधा मूला तथा तूला । तत्र मूला अनादिर्नश्वरा च । यथा

च- अयं जीवो न कूटस्थं विविनक्ति कदाचन । अनादिरविवेकोऽयं मूलाविद्येति

गम्यताम् ॥ (प० द० ६।२५) विशेषज्ञानार्थम् अविद्याशब्दो द्रष्टव्यः ।
 
-
 
-
 
-
 

 
मृत्युः, मृत्यु
१ . तमः, अज्ञानम् । यथा - "मृत्युर्वै तमः सर्वं ह्यज्ञानमावरणात्मकत्वात्

तमः, तदेव च मरणहेतुत्वान्मृत्युः । (बृ० आ० उ० १ ।३।२८) २. ग्रहातिग्रहः ।

यथा - "ग्रहातिग्रहरूपं बन्धनयुक्तं मृत्युरूपम् । (बृ० आ० उ० ३ ।२।१२ शा०

भा०) ३. अशनाया – यथा - अशितुमिच्छा अशनाया सैव मृत्योलर्क्षणं तया लक्षितेन

मृत्युना अशनायया । ...... यो हि अशितुमिच्छति सोऽशनायानन्तरमेव हन्ति जन्तून् ।

तेनासावशनायया लक्ष्यते मृत्युरित्यशनाया हीत्याह । बुद्ध्यात्मनोऽशनाया धर्म इति

स एष बुद्ध्यवस्थो हिरण्यगर्भो मृत्युरित्युच्यते । (ब्र० आ० उ० १ ।२।१ शा० भा०)
 
-
 

 
मेघः- , मेघ
सामान्यमेघ एव किन्तु दक्षिणायने मृतस्य धूममार्गगामिन एकस्य मार्गस्य

नाममेघ-इत्यपि । यथा – "तत्रेयमवरोहश्रुतिर्भवति – "अथैतमेवाध्वानं पुनर्निवर्तते

यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमोभूत्वाऽभ्रं भवति अभ्रं भूत्वा

मेघो भवति मेघो भूत्वा प्रवर्षति' (छा० ५/१०/५) इति ।" (ब्र० सू० ३।१।२२

शा० भा० )
 
-
 

 
मेयः- , मेय
प्रमाणैर्ज्ञेयोऽर्थः । यथा - "परागर्थप्रमेयेषु या फलत्वेन सम्मता ।

संवित्सैवेह मेयोऽर्थो वेदान्तोक्तिप्रमाणतः ॥ (प० द० ८।११) विशेषज्ञानार्थं प्रमेयशब्दो
 

द्रष्टव्यः ।
 
-
 
-
 

 
मैत्रः - , मैत्र
(क) सर्वत्र चराचरेषु मित्रभावसम्पन्नः स्नेहवानिति । यथा - 'मैत्रो

मित्रभावो मैत्री मित्रतया वा वर्तत इत मैत्रः' (गी० १२/१३ शा० भा० ) । यथा

च - मैत्रः मित्रमेव मैत्रो न तूदासीनः कदाचिदपि (तत्रैव नी० क० ) । यथा च -

मैत्र: मैत्री स्निग्धता तद्वान् । (तत्रैव म० सू०) । यथा च - "मैत्रः स्नेहवान्" (तत्रैव

भाष्यो०) यथा च - "समेषु मित्रतया वर्तत इति मैत्रः" (तत्रैव श्रीधरी) । (ख)

मैत्रसंज्ञको विशिष्टो ब्राह्मणः । यथा - तस्मात् तस्मिन्नग्नौ कर्म कृत्वा तत्फलं प्रार्थयन्त

इत्येतदुपपन्नं ब्राह्मणे मनुष्येषु मनुष्याणां पुनर्मध्ये कर्मफलेच्छायां नाग्न्यादिनिमित्त-

क्रियापेक्षा । किं तर्हि जातिमात्रस्वरूपप्रतिलम्भेनैव पुरुषार्थसिद्धिः । यत्र तु देवाधीना
 
-