This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
रञ्जनात्मकस्तृष्णाभेदो रागः, परेणापकृतस्य गात्रनेत्रादिविकारकारणं भयं, क्रोधस्तु
परवशीकृत्यात्मानं स्वपरापकारप्रवृत्तिहेतुर्बुद्धिवृत्तिविशेषः । मनुत इति मुनिः (तत्रैव
आ० गि० ) । यथा च - 'रागः शोभनाध्यासनिबन्धनो विषयेषु रञ्जनात्मकश्चित्तवृत्ति-
विशेषोऽत्यन्ताभिनिवेशरूपः, रागविषयस्य नाशके समुपस्थिते तन्निवारणासामर्थ्यमात्मनो
मन्यमानस्य दैन्यात्मकश्चित्तवृत्तिविशेषो भयम् । एवं रागविषयविनाशके समुपस्थिते
तन्निवारणसामर्थ्यमात्मनो मन्यमानस्याभिज्वलनात्मकश्चित्तवृत्तिविशेषः क्रोधः ते सर्वे
विपर्ययरूपत्वाद् विगता यस्मात् स तथा एतादृशो मुनिर्मननशीलः संन्यासी स्थितप्रज्ञ
उच्यते' (तत्रैव म० सू०) । (ग) ईश्वरार्पितकर्मफलः । यथा च - योगयुक्तो वैदिकेन
कर्मयोगेनेश्वरसमर्पितरूपेण फलनिरपेक्षेण युक्तो मुनिर्मननादीश्वरस्वरूपस्य मुनिः
(गी० ४।६ शा० भा० ) ।
 
-
 
-
 
मुमुक्षुत्वम् - मोक्तुमिच्छतीति मुमुक्षुस्तस्य भावो मुमुक्षुत्वम् । यथा - मुमुक्षुत्वं
मोक्षेच्छा । एवम्भूतः प्रमाता अधिकारी शान्तो दान्तः इत्यादिश्रुतेः । उक्तञ्च - प्रशान्त-
चित्ताय जितेन्द्रियाय प्रहीणदोषाय यथोक्तकारिणे । गुणान्वितायानुगताय सर्वदा
प्रदेयमेतत् सततं मुमुक्षवे । (वे० सा० ८) ।
 
-
 
-
 
-
 
मुरारिः- १. सच्चिदानन्दः । यथा - सत्यत्वादनृतासहं चित्त्वाज्जडरूपासहम-
द्वैतत्वाद्विभक्तरूपासहं सुखत्वाद् दुःखासहं सत्त्वात्तुच्छरूपासहमित्यादिवाक्यैः परिहृत-
द्वैतप्रपञ्चो मुरारिः (सं० शा० १ । २६६ सु० टी०) । २. विष्णुः । यथा - अत्र
मुरारिः सत्त्वप्रधानमायाप्रतिविम्बितं चैतन्यं जगत्पालकं विष्वाख्यम् पदं पद्यते
गम्यते...... इत्यर्थः । 'तुरुस्तुशम्यम: सार्वधातुके' इति स्तौतेरीडागमः । यद्वा,
'मुर संवेष्टने इति तौदादिकस्येगुपधकप्रत्ययान्तस्य रूपं मुरति संवेष्टते स्वस्वरूपमिति
मुरोऽज्ञानं तन्निवृत्तिरूपत्वेन तद्विरोधिभूतं तत्पदलक्ष्यं बिम्बचैतन्यमेव मुरारिः । (सं०
शा० १ । २६६ सु० टी० ) ।
 
-
 
मूर्च्छा - मुग्धावस्था । नेयं जागरितावस्था नापि स्वप्नावस्था नापि सुषुप्त्यवस्था ।
किन्तु अर्धसुषुप्त्यवस्था अर्द्धेन च अवस्थान्तरदशा । यथा - परिशेषादर्द्धसंपत्तिर्मुग्धतेत्य-
गच्छामः । ........ किं तर्ह्यर्द्धन सुषुप्तपक्षस्य भवति मुग्धत्वमर्द्धनावस्थान्तरपक्षस्येति
ब्रूमः । द्वारं चैतन्मरणस्य यदास्य सावशेषं कर्म भवति तदा वाङ्मनसे प्रत्यागच्छतः।
तस्मादर्द्धसम्पत्तिं ब्रह्मविद इच्छन्ति । (ब्र० सू० ३।२।१० शा० भा० )