This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
-
 
इति परमात्मज्ञानात्मज्ञानादशेषकर्मक्षयं दर्शयति । तेन गौणसंन्यासिनां पुनः संसार:
मुख्यसंन्यासिनां तु मोक्ष इति फले विशेष उक्तः (तत्रैव म० सू०) । यथा च
संन्यासिशब्देनात्र फलत्यागसाम्यात् प्राकृताः कर्मफलत्यागिनो गृह्यन्ते । अनाश्रित
कर्मफलं कार्यं कर्म करोति यः । स संन्यासी चेत्येवमादौ च फलत्यागिषु संन्यासि-
"शब्दप्रयोगदर्शनात् तेषां सात्त्विकानां पापासम्भवात् ईश्वरार्पणेन च पुण्यफलस्य
त्यक्तत्वात् त्रिविधमपि कर्मफलं न भवतीत्यर्थ इति वर्णयति तन्नोपादेयम् । संन्यासिशब्दस्य
परमार्थसंन्यासिनि सर्वकर्मत्यागिनि मुख्यत्वात् कर्मणि च फलत्यागसाम्येन गौणत्वात्
मुख्यार्थस्य चेहाबाधात्तस्यैव संन्यासिशब्देन ग्रहणसम्भवे गौणग्रहणस्य "गौणमुख्ययोर्मुख्ये
कार्यसम्प्रत्ययः, इति शब्दमर्यादाऽपरिज्ञानविजृम्भित्वात् सत्यां कारणसामग्र्यां कार्योत्पाद
इत्यर्थमर्यादाऽज्ञानमूलकत्वाच्च ईश्वरार्पणेन त्यक्तकर्मफलस्यापि सत्त्वशुद्ध्यर्थं नित्यानि
कर्माणि अनुष्ठितोऽन्तराले मृतस्य प्रागर्जितकर्मरूपकारणसामग्र्या त्रिविधशरीररूप-
कार्योत्पाद आवश्यक एवेति दिक् (तत्रैव भाष्यो०) ।
 
मुग्धः – अर्द्धेन सुषुप्त्यवस्थामापन्नः अर्द्धनावस्थान्तरदशामापन्नः । यथा -
अत्रोच्यते न ब्रूमो मुग्धेऽर्थे सम्पत्तिर्जीवस्य ब्रह्मणा भवतीति । किं तर्ह्यर्धेन सुषुप्तपक्षस्य
भवति मुग्धत्वमर्धेनावस्थान्तरपक्षस्येति ब्रूमः । दर्शिते च मोहस्य स्वापेन साम्यवैषम्ये ।
द्वारं चैतन्मरणस्य । यदास्य सावशेषं कर्म भवति, तदा वाङ्मनसे प्रत्यागच्छतः । यदा
तु निरवशेषं कर्म भवति तदा प्राणोष्माणावपगच्छतः । तस्मादर्धसम्पत्तिं ब्रह्मविद्
इच्छन्ति (ब्र० सू० ३।२।१० श० भा० ) । यथा च - अस्ति मुग्धो नाम यं मूर्च्छित
इति लौकिकाः कथयन्ति (तत्रैव) ।
 
-
 
-
 
मुनिः ३ - १. (क) योगी, मननशीलः । यथा- एतमेव आत्मानं विदित्वा
यथाप्रकाशितं मुनिर्भवति । मनमान् मुनिः योगी भवतीत्यर्थः (बृ० उ०
४।४।२२ शा० भा० ) । यथा च - मुनयः संन्यासिनो मननशीला: (गी० १४।१ )।-
-
 
-
 
-
 
यथा च - मुनिशब्दस्य चतुर्थाश्रमविषयत्वे तन्मात्रादेव ज्ञानायोगात् कुतस्तेषां
मुक्तिरित्याशङ्क्याह - मननेति (तत्रैव आ० गि०) । यथा च - 'मुनयः संन्यासिनो'
मननशीलाः (तत्रैव म० सू० ) । यथा च - मुनयो मननशीलाः (तत्रैव श्रीधरी) ।
(ख) स्थितधीः, संन्यासी । यथा - "वीतरागभयक्रोधः रागश्च भयं च क्रोधश्च वीता
विगता रागभयक्रोधा यस्मात् स वीतरागभयक्रोधः स्थितधीः स्थितप्रज्ञो मुनिः संन्यासी
तदोच्यते" (गी० २।५६ शा० भा० ) । यथा च - अनुभूताभिनिवेशे विषयेषु