This page has not been fully proofread.

३६०
 
शाङ्करवेदान्तकोशः
 
रमणीयचरणा रमणीयां योनिमापद्यन्ते, कपूयचरणाः कपूयां योनिमापद्यन्ते
(छा० ५।१०।१) इति । प्रतिषिद्धानुष्ठायिनां तु रौरवादिनरकविशेषेषु तत्तत्पापोपचितं
तीव्रदुःखमनुभूय श्वशूकरादितिर्यग्योनिषु स्थावरादिषु चोत्पत्तिरित्यलं प्रसङ्गादा-
गतप्रपञ्चेनेति। निर्गुणब्रह्मसाक्षात्कारवतस्तु न लोकान्तरगमनम्, न तस्य प्राणा
उत्क्रामन्ति (बृ० उ० ४।४।६) । इति श्रुतेः । किन्तु यावत् प्रारब्धकर्मक्षयं सूखदुःखे
अनुभूय पश्चादपवृज्यते । ननु क्षीयन्ते चास्यकर्माणि तस्मिन् दृष्टे परावरे (मु० ३।८)
इत्यादिश्रुत्या ।'ज्ञानाग्निः सर्वकर्माणि भम्मसात्कुरुते तथा' (भ०गी० ४।३७) । इत्यादि-
स्मृत्या च ज्ञानस्य सकलकर्मक्षयहेतुत्वनिश्चये सति प्रारब्धकर्मावस्थानमनुपपन्नमिति
चेत्, न । 'तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये (छा० ६।१४ । २ )
इत्यादिश्रुत्या नाभुक्तं क्षीयते कर्म इत्यादिस्मृत्या चोत्पादितकार्यकर्मव्यतिरिक्तानां
सञ्चितकर्मणामेव ज्ञानविनाशित्वावगमात् (वे० प०८ प०) । यथा च - "गीताशास्त्रस्य
ससंन्यासं ज्ञानमेव मुक्तिसाधनमर्थो नार्थान्तरमिति विवेकार्थमिह श्रुत्यर्थं कीर्तयतीत्यर्थः
(गी०३।१७ आ० गि० टी०) । यथा च - मोक्षमेकं वर्जयित्वा अन्यस्य अविद्याविषयत्वात्
पुरुषाभिप्रायतन्त्रौ ह्यर्थानर्थौ । मारणादिकाम्येष्टिदर्शनात् । तस्माद् यावदात्मज्ञान-
विधेराभिमुख्यं तावदेव कर्मविधयः । तस्मान्नात्र ज्ञानसहभावित्वं कर्मणामित्यतः
सिद्धमात्मज्ञानमेवामृतत्वसाधनम् । एतावदरे खल्वमृतत्वम् कर्मनिरपेक्षत्वाज्ज्ञानस्य
(बृ० आ० उप० ४/५/१५ शा० भा०) ।
 
मुख्यसंन्यासी - संन्यासी द्विविधः मुख्यसंन्यासी, गौणसंन्यासी च । मुख्यसंन्यासी
सर्वकर्मत्यागी, गौणसंन्यासी च कर्म कुर्वन्नपि कर्मफलत्यागी । यथा- "अनिष्टं
नरकतिर्यगादिरूपम्, इष्टं देवतादिरूपम्, मिश्रं मानुषभाव इति कर्मणः कर्मजातीयस्य
फलं त्रिविधं प्रेत्य मरणान्तरमत्यागिनां पूर्वोक्तमुख्यसंन्यासहीनानां भवति मुख्यसंन्यासिनां
तु न क्वचिदपि भवति । तेषां कर्तृत्वाभिमानाभावात्" (गी० १८/१२ नी० क० ) ।
यथा च – एवं गौणसंन्यासिनां शरीरपातादूर्ध्वं शरीरान्तर्ग्रहणमावश्यकमित्युक्त्वा मुख्य-
संन्यासिनां परमात्मसाक्षात्कारेणाविद्यातत्कार्यनिवृत्तौ विदेहकैवल्यमेवेत्याह- न तु
संन्यासिनां क्वचिदिति । परमात्मज्ञानवतां मुख्यसंन्यासिनां परमहंसपरिव्राजकानां
प्रेत्य कर्मणः फलं शरीरग्रहणमनिष्टमिष्टं मिश्रं च क्वचिद्देशे काले वा न भवत्येवेत्यव-
धारणार्थस्तु शब्दः । ज्ञानेनाज्ञानस्योच्छेदे तत्कार्याणां कर्मणामुच्छिन्नत्वात् - तथा च
श्रुतिः 'भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे
परावरे' इति । पारमार्षं च सूत्रम्-'तदधिगम उत्तरपूर्वार्धयोरश्लेषविनाशौ तदव्यपदेशात्'
 
-