This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
३५९
 
यजेत' इति वाक्यावगतफलसाधनताकदर्शपूर्णमासप्रकरणे प्रयाजादीनामिव फल-
साधनत्वेनावगतस्य श्रवणस्य प्रकरणे मनननिदिध्यासनयोराम्नातम् । ननु द्रष्टव्य इति
दर्शनानुवादेन श्रवणे विहिते सति फलवत्तया श्रवणप्रकरणे तत्सन्निधावाम्नातयो-
र्मनननिदिध्यासनयोः प्रयाजन्यायेन प्रकरणादेवाङ्गतेति चेत् । न । 'ते ध्यानयोगानुगता
अपश्यन्' इत्यादिश्रुत्यन्तरे ध्यानस्य दर्शनसाधनत्वेनावगतस्याङ्गाकाङ्क्षायां प्रयाजन्यायेन
श्रवण-मननयोरेवाङ्गतापत्तेः । क्रमसमाख्ये च दूरनिरस्ते । किञ्च प्रयाजादावङ्गत्वविचारः
सप्रयोजनः । पूर्वपक्षे विकृतिषु न प्रयाजाद्यनुष्ठानम्, सिद्धान्ते तु तत्रापि तदनुष्ठानमिति ।
प्रकृते तु श्रवणं न कस्यचिठप्रकृत्तिः, येन मनननिदिध्यासनयोस्तत्राप्यनुष्ठानमङ्गत्व-
विचारफलं भवेत् । तस्मान्न तार्तीयशेषत्वं मनननिदिध्यासनयोः । किन्तु यथा घटा-
दिकार्यै मृत्पिण्डादीनां प्रधानकारणता, चक्रादीनां सहकारिकारणतेति प्रधान्याप्राधान्य -
व्यपदेशः, तथा श्रवणमनन-निदिध्यासनानामपीति मन्तव्यम् । सूचितं चैतद्विवरणाचार्यैः -
शक्तितात्पर्यं विशिष्टशब्दावधारणम् प्रमेयावगमं प्रत्यव्यवधानेन कारणं भवति,
प्रमाणस्य प्रमेयावगमं प्रत्यव्यवधानात् । मनननिदिध्यासने तु चित्तस्य प्रत्यगात्मप्रवणता-
संस्कारपरिनिष्पन्नतदेकाग्रवृत्तिकार्यद्वारेण ब्रह्मानुभव-हेतुतां प्रतिपद्येते इति फलं
प्रत्यव्यवहितकरणस्य तात्पर्यविशिष्टशब्दावधारणस्य व्यवहिते मनन-निदिध्यासने
तदङ्गेऽङ्गीक्रियेते इति । श्रवणादिषु च मुमुक्षूणामधिकारः काम्ये कर्मणि
फलकामस्याधिकारित्वात् । मुमुक्षायां च नित्यानित्यवस्तुविवेकस्येहामुत्रार्थफलभोग-
विरागस्य शमदमोपरतितितिक्षासमाधानश्रद्धानां च विनियोगः । अन्तरिन्द्रियनिग्रहः
शमः । बहिरिन्द्रियनिग्रहो दमः । विक्षेपाभाव उपरतिः । शीतोष्णादिद्वन्द्वसहनं तितिक्षा ।
चित्तैकाग्र्यं समाधानम् । गुरुवेदान्तवाक्येषु विश्वासः श्रद्धा । अत्रोपरमशब्देन
संन्यासोऽभिधीयते, तथा च संन्यासिनामेव श्रवणाधिकार इति केचित् । अपरे तु
उपरमशब्दस्य संन्यासवाचकत्वाभावाद्विक्षेपाभावमात्रस्य गृहस्थेष्वपिसम्भवात् जनकादेरपि
ब्रह्मविचारस्य श्रूयमाणत्वात्सर्वाश्रमसाधारणं श्रवणादिविधानमित्याहुः । सगुणोपासनमपि
चित्तैकाग्र्यद्वारा निर्विशेषब्रह्मसाक्षात्कारे हेतुः । तदुक्तम्- "निर्विशेषं परं ब्रह्म
साक्षात्कर्तुमनीश्वराः । ये मन्दास्ते अनुकम्प्यन्ते सविशेषनिरूपणैः । वशीकृते मनस्येषां
सगुणब्रह्मशीलनात् । तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनम्" । सगुणोपासकानां
चार्चिरादिमार्गेण ब्रह्मलोकं गतानां तत्रैव श्रवणादुत्पन्नतत्त्वसाक्षात्काराणां ब्रह्मणा सह
मोक्षः। कर्मिणां तु धूमादिमार्गेण पितृलोकं गतानामुपभोगेन कर्मक्षये सति पूर्वकृत-
सुकृतदुष्कृतानुसारेण ब्रह्मादिस्थावरान्तेषु पुनरुत्पत्तिः । तथा च श्रुतिः -
 
-