This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
३५८
 
सूक्ष्मवस्तुनि पटुकरणापटुकरणयोः प्रत्यक्षत्वाप्रत्यक्षात्वव्यवहारदर्शनात् । तथा च

संवित्साक्षात्त्वे इन्द्रियजन्यत्वस्यैव प्रयोजकतया न शब्दजन्यज्ञानस्यापरोक्षत्वम् ।

ब्रह्मसाक्षात्कारेऽपि मनन-निदिध्यासनसंस्कृतं मन एव करणम् 'मनसैवानुद्रष्टव्यः'

इत्यादिश्रुतेः । मनोऽगम्यत्वश्रुतिश्चासंस्कृतमनोविषया । न चैवं ब्रह्मण औपनिषद-

त्वानुपपत्तिः, अस्मदुक्तमनसो वेदजन्यज्ञानानन्तरमेव प्रवृत्ततया वेदोपजीवित्वात् ।

वेदानुपजीविमानान्तरगम्यत्वस्यैव वेदगम्यविरोधित्वात् । शास्त्रदृष्टिसूत्रमपि
 

ब्रह्मविषयमानसप्रत्यक्षस्य शास्त्रप्रयोज्यत्वादुपपद्यते । तदुक्तम्- अपि संराधने

सूत्राच्छास्त्रार्थध्यानजा प्रमा। शास्त्रदृष्टिर्मता तां तु वेत्ति वाचस्पतिः परम् । इति ।

तच्च ज्ञानं पापक्षयात् । स च कर्मानुष्ठानादिपरम्परया कर्मणां विनियोगः । अत एव

तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन (बृ. उ०

४।४।२२) । इत्यादिश्रुतिः, कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते इत्यादिस्मृतिश्च

सङ्गच्छते । एवं श्रवण-मनन-निदिध्यासनान्यपि ज्ञानसाधनानि । मैत्रेयी ब्राह्मणे 'आत्मा

वा अरे द्रष्टव्यः (बृ० उ० २।४।४) इति दर्शनमनूध तत्साधनत्वेन 'श्रोतव्यो मन्तव्यो

निदिध्यासितव्यः' (बृ० उ० २।४।४) इति श्रवण-मनन निदिध्यासनानां विधानात् ।

तत्र श्रवणं नाम वेदान्तानामद्वितीये ब्रह्मणि तात्पर्यावधारणानुकूला मानसी क्रिया ।

मननं नाम शब्दावधारितेऽर्थे मानान्तरविरोधशङ्कायां तन्निराकरणानुकूलतर्कात्मज्ञानजनको

मानसो व्यापारः। निदिध्यासनं नाम अनादिदुर्वासनया विषयेष्वाकृष्यमाणचित्तस्य

विषयेभ्योऽपकृष्यात्मविषयकस्थैर्यानुकूलो मानसो व्यापारः । तत्र निदिध्यासनं

ब्रह्मसाक्षात्कारे साक्षात्कारणम् । ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्नि-

गूढ़ाम् (श्वे० १-३) इत्यादिश्रुतेः निदिध्यासने च मननं हेतुः । अकृतमननस्यार्थदाढ्र्या-

भावेन तद्विषये निदिध्यासनायोगात् । मनने च श्रवणं हेतुः, श्रवणाभावे तात्पर्यानिश्चयेन

शाब्दज्ञानाभावेन श्रुतार्थविषयकयुक्तत्वायुक्तत्वनिश्चयानुकूलमननायोगात् । एतानि

त्रीण्यपि ज्ञानोत्पत्तौ कारणानीति केचिदाचार्या ऊचिरे । अपरे तु - श्रवणं प्रधानम्,

मनननिदिध्यासनयोस्तु श्रवणात्पराचीनयोरपि श्रवणफलब्रह्मदर्शननिर्वर्तकतया

आरादुपकारकाङ्गत्वमित्याहुः । तदप्यङ्गत्वं न तार्तीयशेषत्वरूपम् । यस्य श्रुत्याद्यन्यतम

प्रमाणगम्यस्य प्रकृते श्रुत्याद्यन्यतमाभावेऽसम्भवात् । तथा हि, 'ब्रीहिभिर्यजेत' 'दध्ना

जुहोति' इत्यादाविव मनननिदिध्यासनयोरङ्गत्वे न काचित्तृतीया श्रुतिरस्ति । नापि

'बर्हिदेवसदनं दामि' इत्यादि-मन्त्राणां बर्हिः खण्डनप्रकाशनसामर्थ्यवत् किञ्चिल्लिङ्गमस्ति ।

नापि प्रदेशान्तरपठितप्रवर्ग्यस्याग्निष्टोमे प्रवृणक्तीति वाक्यवच्छ्रवणानुवादेन मनन-

निदिध्यासनयोर्विनियोजकं किञ्चिद्वाक्यमस्ति । नापि 'दर्शपूर्णमासाभ्यां स्वर्गकामो