This page has not been fully proofread.

शावेदान्तकोशः
 
३५७
 
प्रतिभासः । लेशो नावयवः । आकारस्येव लेशशब्दार्थत्वात् । ...यद्वा- अज्ञानस्य
सूक्ष्मावस्थालेशः । ..... तस्मादविद्यालेशानुवृत्त्या जीवन्मुक्तिरूपपन्नतरा । यथा च
सिद्धान्तलेशसंग्रहे चतुर्थपरिच्छेदे - क्षालितलशुनभाण्डानुवृत्तलशुनवासनाकल्पोऽविद्या-
संस्कारः । तेनाविद्यालेशेन जीवन्मुक्तिः । तत्त्वप्रदीपिकायां चतुर्थपरिच्छेदे-मायालेशो
जीवन्मुक्तस्यानिवृत्तः समाध्यवस्थायां तिरोहितोऽन्यदा देहाभासजगदाभासहेतुतयानु-
र्वतते । तदेवं श्रुतिस्मृतिपुराणादिष्वाघुष्यमाणा जीवन्मुक्तिः प्रद्वेषमात्रेण नापलपितुं
शक्यते । विदेहमुक्तिश्च प्रधाना । ब्रह्मसाक्षात्कारसमनन्तरमेव देहपातं विदेहमुक्तिः ।
अधिकं मुक्तिशब्दे द्रष्टव्यम् । निर्विशेषब्रह्मवादिनामेष मुक्तिभेदः । सगुणोपासकानां
विशिष्टाद्वैतिनां शुद्धाद्वैतिनां वेदान्तिनान्तु सालोक्यादयः पञ्च- भेदाः । यथा - ब्रह्मणः
सायुज्यंसालोक्यमाप्नोत्येतासामेव देवतानां सायुज्यं सार्ष्टिता समानलोकतामाप्नोति
य एवं वेद (कृष्णयजुर्वेदतैत्तिरीयारण्यके १० प्रपाठके १४ अनुवाके) भाग-
वतादिपुराणेष्वप्येवमेव । यथा च - सगुणोपासकानां चार्चिरादिमार्गेण ब्रह्मलोकं गतानां
तत्रैव श्रवणादुत्पन्नतत्त्वसाक्षात्काराणां ब्रह्मणा सह मोक्षः (वे० प० ८ प०) ।
अद्वैतसिद्धौ सायुज्यमुक्तिः खण्डिता ।
 
-
 
मुक्तिसाधनम् - केवलं ज्ञानमेव । यथा च - "स च ज्ञानैकसाध्यः" 'तमेव
विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' (श्वे० ३-८) । इति श्रुतेः, अज्ञान-
निवृत्तेर्ज्ञानैकसाध्यत्वनियमाच्च । तच्च ज्ञानं ब्रह्मात्मैक्यगोचरम् । अभयं वै जनक
प्राप्तोऽसि ( बृ० उ० ४ ।२।४) । तदात्मानमेव वेदाहं ब्रह्मास्मि (बृ० उ० १ ।४।१०)।
इति श्रुतेः । 'तत्त्वमस्यादिवाक्योत्थं ज्ञानं मोक्षस्य साधनम्' इति नारदीयवचनाच्च ।
तच्च ज्ञानमपरोक्षरूपम् । परोक्षत्वेऽपरोक्षभ्रमनिवर्तकत्वानुपपत्तेः । तच्चापरोक्षज्ञानं
तत्त्वमस्यादिवाक्यादिति केचित् । मनननिदिध्यासनसंस्कृतान्तःकरणादेवेत्यपरे । तत्र
पूर्वाचार्याणामयमाशयः - संविदापरोक्ष्यं न करणविशेषोत्पतिनिबन्धनम्, किन्तु
प्रमेयविशेषनिबन्धनमित्युपपादितम् । तथा च ब्रह्मणः प्रमातृजीवाभिन्नतया तद्गोचरं
शब्दजन्यज्ञानमप्यपरोक्षम् । अत एव प्रतर्दनाधिकरणे प्रतर्दनं प्रति प्राणोऽस्मि प्रज्ञात्मा
तं मामायुरमृतमुपास्व (कौ० ३ । २) । इतीन्द्रप्रोक्तवाक्ये प्राणशब्दस्य ब्रह्मपरत्वे निश्चिते
सति मामुपास्वेत्यस्मच्छब्दानुपपत्तिमाशङ्क्य तदुत्तरत्वेन प्रवृत्ते 'शास्त्रदृष्ट्या तूपदेशो
वामदेववत्' (ब्र० सू० १ । १ । ३१ ) । इत्यत्र सूत्रे शास्त्रीया दृष्टिः शास्त्रदृष्टिरिति
तत्त्वमस्यादिवाक्यजन्यमहं ब्रह्मेति ज्ञानं दृष्टिशब्देनोक्तमिति । अन्येषां त्वयमाशयः
करणविशेषनिबन्धनमेव ज्ञानानां प्रत्यक्षत्वम्, न विषयविशेषनिबन्धनम्, एकस्मिन्नेव