This page has been fully proofread once and needs a second look.

३५६
 
शावेदान्तकोशः
 
(सं० शा० ६८ सु० टी०) । यथा च -... सा हि मुक्तिरखिलानर्थनिर्मुक्तपूर्णानन्दावाप्ति-

रूपत्वात् परमपुरुषार्थ इत्यर्थ: (सं० शा० ५० सु० टी० ) । यथा च - १. संसारोपरमः ।

२. पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरुप्रतिष्ठा वा चितिशक्तिरिति (सर्व ०

सं० पृ० ३८७. पात०) ।३. नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिः (सर्व० सं० पृ० २५०

अक्ष०)। ४. प्रकृतिपुरुषान्यत्वख्यातौ प्रकृत्युपरमे पुरुषस्य स्वरूपेणावस्थानं मुक्तिः

(सर्व० सं० पृ० २४९ अक्षपा० ) । ५. आवरणमुक्तिर्मुक्ति: (सर्व० सं० पृ० २४८

अक्षपा० ) । ६. लब्धानन्तचातुष्कस्य लोकागूढस्य चात्मनः । क्षीणाष्टकर्मणो मुक्तिर्निर्व्यावृत्ति-

र्जिनोदिता (सर्व० सं० पृ० ८८ आई०) । ७ गतसमस्तक्लेशतद्वासनस्यानावरण-

ज्ञानस्य सुखैकतानस्यात्मन उपरिदेशावस्थानं मुक्तिः ( सर्व० सं० पृ० ८१ आई०) ।

८. रागादिज्ञानसन्तानवासनोच्छेदसम्भवा । चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्तिता

(सर्व० सं० पृ० ४६ बौ०) ।९. मोचनम् इति कामज्ञाः निःसरणं वा मुक्तिः आहुः

(न्यायकोशः) ।
 
-
 

 
मुक्तितारतम्यम् - , मुक्तितारतम्य
एवमखण्डब्रह्मानन्दस्वरूपावगतिरूपमुक्तौ उच्चनीच-

सातिशयनिरतिशयादिरूपं तारतम्यं नास्ति । सति सातिशये मुक्तावनित्यता प्रसङ्गः

स्यात् स्वर्गादिवत् । यथा - नापि मुक्तावुच्चनीचभावः । तस्य द्वितीयसापेक्षत्वे तदा

असम्भवात् । परमं साम्यमुपैतीति साम्यश्रुतेश्च । सातिशयत्वे मुक्तेः स्वर्गादिवदनित्यत्वं

स्यात् । अधिकदर्शने दुःखद्वेषादिकं च स्यात् । ननु मुक्तौ अतारतम्यं किं भेदाभावात्

उत सत्यपि भेदे तत्साम्यात् । इत्यादि ।...तस्मात् स्वरूपानन्दस्य प्रकाशात्मस्वरूपिणः ।

प्राप्तिर्मुक्तिर्न तस्यास्ति तारतम्यं कदाचन ( अ० सि० मुक्तौ तारतम्यभङ्गे) ।
 

 
मुक्तिभेदः - , मुक्तिभेद
मुक्तिस्त्रिविधा - क्रममुक्तिः जीवन्मुक्ति विदेहमुक्तिश्च । यथा - तत्र

कानिचिद् ब्रह्मण उपासनान्यभ्युदयार्थानि कानिचित् क्रममुक्त्यर्थानि कानिचित्

कर्मसमृद्ध्यर्थानि (ब्र० सू० १/१/११ शा० भा०) । अत्र वेदान्तकल्पतरौ

अभ्युदयार्थानि प्रतीकोपासनानि क्रममुक्त्यर्थानि दहराद्युपासनानि । उपासनया चित्तशुद्धिद्वारा

उत्तमलोकप्राप्तिस्ततश्च निर्विशेषब्रह्मसाक्षात्काररूपो मोक्षः । यथा - सगुणोपासनमपि

चित्तैकाग्र्यद्वारा निर्विशेषब्रह्मसाक्षात्कारे हेतुः ।सगुणोपासकानां चार्चिरादिमार्गेण

ब्रह्मलोकं गतानां तत्रैव श्रवणादुत्पन्नतत्त्वसाक्षात्काराणां ब्रह्मणा सह मोक्षः ।

.......कर्मिणां तु धूमादिमार्गेण पितृलोकम्.....। निर्गुणब्रह्मसाक्षात्कारवतस्तु न

लोकान्तरगमनम् (वे० प० ८ प०) । इयमेव क्रममुक्तिः जीवन्मुक्तिः । यथा अद्वैतसिद्धि-

जीवन्मुक्त्युपपत्तिनिरूपणे - जीवनमुक्तश्च तत्त्वज्ञानेन निवृत्ताविद्योऽप्यनुवृत्तदेहादि-