This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
-
 
मुक्तत्वम् - , मुक्तत्व
प्रपञ्चोपशमत्वम्, निःसंसारिता । यथा- "मुक्तत्वमविद्याकाम-

कर्मपारतन्त्र्यराहित्यम्" (गी० म० श्लो० १ आ० गि० टी०) ।
 
३५५
 

 
मुक्तिः - , मुक्ति
मोक्षः स्वस्वरूपावगतिः, अविद्यानाशः, अविद्यास्तमयः । यथा-

अद्वयानन्दरूपस्य सद्वयत्वं च दुःखिता । बन्धः प्रोक्तः स्वरूपेण स्थितिर्मुक्तिरितीर्यते

(प० द० १०।४) । यथा च - आनन्दात्मकब्रह्मावाप्तिश्च मोक्षः शोकनिवृत्तिश्च ।

'ब्रह्मवेद ब्रह्मैव भवति' - मु० उ० ३।२१९- । 'तरति शोकमात्मवित्' - छां० उ०

१ ।१।३ - इत्यादिश्रुतेः । न तु लोकान्तरावाप्तिः, तज्जन्यवैषयिकानन्दो वा । मोक्षः ।

तस्य कृतत्वेनानित्यत्वे मुक्तस्य पुनरावृत्त्यापत्तेः । ननु त्वन्मतेऽप्यानन्दावाप्तेरनर्थ-

निवृत्तेश्च सादित्वे तुल्यो दोषः, अनादित्वे मोक्षमुद्दिश्य श्रवणादौ प्रवृत्त्यनुपपत्तिरिति

चेत्, न । सिद्धस्यैव ब्रह्मस्वरूपस्य मोक्षस्यासिद्धत्वभ्रमेण तत्साधने प्रवृत्त्युपपत्तेः ।

अनर्थनिवृत्तिरप्यधिष्ठानभूतब्रह्मस्वरूपतया सिद्धैव । लोकेऽपि प्राप्तप्राप्तिपरिहृत-

परिहारयोः प्रयोजनत्वं दृष्टमेव । यथा हस्तगतविस्मृतसुवर्णादौ 'तव हस्ते सुवर्णम्'

इत्याप्तोपदेशादप्राप्तमिव प्राप्नोति । यथा वा वलयितचरणायां रज्जौ सर्पत्वभ्रमवतो नायं

सर्प इत्याप्तवाक्यात् परिहृतस्यैव सर्पस्य परिहारः । एवं प्राप्तस्याप्यानन्दस्य प्राप्तिः,

परिहृतस्याप्यनर्थस्य निवृत्तिः मोक्षः प्रयोजनम् (वे० प० ८ परि०) । यथा च -

"मुक्तिस्तु ब्रह्मतत्त्वस्य ज्ञानादेव न चान्यथा । स्वप्नबोधं विना नैव स्वप्नो हीयते यथा

(प० द०६ । २१०) । यथा - यथा च किंबहुनाऽयं देहयात्रामात्रार्थमिच्छानिच्छापरेच्छा-

प्रापितानि सुखदुःखलक्षणान्यारब्धफलान्यनुभवन्नेवान्तःकरणाभासादीनामवभासकः

संस्तदवसाने प्रत्यगानन्दपरब्रह्मणि प्राणे लीने सत्यज्ञानतत्कार्यसंस्काराणामपि विनाशात्

परमकैवल्यमानन्दैकरसमखिलभेदप्रतिभासरहितमखण्डं ब्रह्मावतिष्ठते (वे० सा०) ।

यथा च- तस्मात् शास्त्राचार्यप्रसादासादिततत्त्वमस्यादिवाक्योत्थसाक्षात्कारेण

मोक्षाविर्भावप्रतिबन्धकाज्ञानतत्कार्यतिरस्कारसमनन्तरं नित्यशुद्धबुद्धमुक्तस्वभावा-

द्वितीयानन्दोऽस्मीति मन्यते । ततः कृतकृत्यो भवति (वेदान्तसिद्धान्तमुक्तावल्याम्) ।

यथा च - नन्वज्ञाननिवृत्तेः क्षणिकत्वान्मुक्तिरस्थिरा स्याच्चेत् । ब्रह्मानन्दस्फुरणं

दुःखाभावश्च मुक्तिरित्याहुः । ननु तस्याः क्षणिकत्वे मुक्तिर्न स्थिरपुमर्थ इति मैवम् ।

सुखदुःखाभावान्यतरत्वाभावान् नहि तथेत्याहुः । चित्सुखचरणास्त्वाहुर्दुःखाभावोऽपि न

पुमर्थः । सुखशेषत्वात्तस्य स्वरूपसुखमेव तादृगिति (सिद्धान्तकल्पवल्ल्याम् ३ स्तवके) ।

अन्तःकरणशुद्धिद्वारा क्रममुक्तिश्च । एतत्सर्वोपाधिनिराकरणेन साक्षिचैतन्यमात्रज्ञानेन

तु साक्षादेव मोक्षः (सि० वि० ९८) । यथा च - मुक्तिर्हि दुःखनिवृत्तिसुखावाप्तिस्वरूपा
 
-