2023-03-12 05:01:38 by ambuda-bot
This page has not been fully proofread.
शावेदान्तकोशः
स्वस्वरूपावगतिः सगूलाझननाशः समनन्तरमेव शरीरपातश्च । यथा च - ननु 'क्षीयन्ते
चास्य कर्माणि तस्मिन् दृष्टे परावरे' (मु० ३।८) इत्यादिश्रुत्या । 'ज्ञानाग्निः सर्वकर्माणि
भस्मसात्कुरुते तथा' (भ० गी० ४।३७) इत्यादिस्मृत्या च ज्ञानस्य सकलकर्मक्षय-
हेतुत्वनिश्चये सति प्रारब्धकर्मावस्थानमनुपपन्नमिति चेत्, न । 'तस्य तावदेव चिरं
यावन्न विमोक्ष्येऽथ सम्पत्स्ये - छा० ६।१४।२- इत्यादिश्रुत्या 'नाभुक्तं क्षीयते कर्म'
इत्यादिस्मृत्या चोत्पादितकार्यकर्मव्यतिरिक्तानां सञ्चितकर्मणामेव ज्ञानविनाशित्वावगमात् ।
सञ्चितं द्विविधम् - सुकृतं दुष्कृतं चेति । तथा च श्रुतिः 'तस्य पुत्रा दायमुपयन्ति सुहृदः
साधुकृत्यां द्विषन्तः पापकृत्यामि'ति । ननु ब्रह्मज्ञानान्मूलाज्ञाननिवृत्तौ तत्कार्यप्रारब्ध
कर्मणोऽपि निवृत्तिः, कथं ज्ञानिनो देहधारणमुपपद्यते ? इति चेत्, न । अप्रतिबद्ध-
ज्ञानस्यैवाज्ञाननिवर्तकतया प्रारब्धकर्मरूप - प्रतिबन्धकदशायामज्ञाननिवृत्तेरनङ्गीकारात् ।
नन्वेवमपि तत्त्वज्ञानादेकस्य मुक्तौ सर्वमुक्तिः स्यात् अविद्याया एकत्वेन तन्निवृत्तौ
क्वचिदपि संसारायोगादिति चेत्, न । इष्टापत्तेरित्येके । अपरे त्वेतद्दोषपरिहाराय 'इन्द्रो
मायाभिः' इति बहुबचनश्रुत्यनुगृहीतमविद्याया नानात्वमङ्गीकर्तव्यमित्याहुः । अन्ये
त्वेकैवाविद्या, तस्या एवाविद्याया जीवभेदेन ब्रह्मस्वरूपावरणशक्तयो नाना । तथा च
यस्य ब्रह्मज्ञानं तस्य ब्रह्मस्वरूपावरणशक्तिविशिष्टाविद्यानाशः न त्वन्यं प्रति
ब्रह्मस्वरूपावरणशक्ति - विशिष्टाविद्यानाश इत्यभ्युपगमात् नैकमुक्तो सर्वमुक्तिप्रसङ्गः ।
अत एव च यावदधिकारमवस्थितिराधिकारिकाणाम् (ब्र० सू० ३।३।३२) ।
इत्यस्मिन्नधिकरणेऽधिकारिपुरुषाणामुत्पन्नतत्त्वज्ञानानामिन्द्रादीनां देहधारणानुपपत्ति-
माङ्क्याधिकारापादकप्रारब्धकर्मसमाप्त्यनन्तरं विदेहकैवल्यमिति सिद्धान्तितम् ।
तदुक्तमाचार्यवाचस्पतिमिश्रै: - उपासनादि- संसिद्धितोषितेश्वरचोदितम् । अधिकारं
समाप्यैते प्रविशन्ति परं पदम् । इति । (वे० प० ८ प०) । यथा
भवान्तरप्राप्तिविधुरः (सर्व० सं० पृ० ७१ आई०) । अन्यत्र चोक्तम्-
विद्यादिज्ञापितैश्वर्यश्चिद्धनो मुक्त उच्यते (सर्व० सं० पृ० १९९ प्रत्य०) (इति न्याय
कोशः) । यथा च - मुक्तिस्तु ब्रह्मतत्त्वस्य ज्ञानादेव न चान्यथा । स्वप्नबोधं विना नैव
स्वस्वप्नो हीयते तथा (प० ६।२१०) । यथा च - तदेवं ब्रह्मज्ञानान् मोक्षः । स
चानर्थनिवृतिर्निरतिशयब्रह्मानन्दावाप्तिश्चेति सिद्धं प्रयोजनम् (वे० प० ८ प०) ।
च-
-
३५४
-
-
-
मुक्तता - बन्धराहित्यम्, प्रपञ्चोपशमरूपा निःसंसारित्वम् । यथा - गोवत्सा-
दावस्ति बन्धविमोकलक्षणा मुक्तता व्यावहारिकी प्रत्यगात्मनि तु प्रपञ्चोपशमरूपे
निःसंसारत्वलक्षणा तात्त्विकी (सं० शा० १/१८३ सु० टी०) ।